________________
बाण वेदाङ्कचन्द्रेऽब्दे (१९४५), ज्येष्ठे शुक्ले रवेस्तिथौ । गृहीतसंयमोः सोऽभू-च्छ्रीनेमविजयाभिधः ॥८४॥ इत्थं लब्ध्वा प्रचुरजननावाप्तपुण्यप्रकर्षात् दीक्षां मोहप्रचयतिमिरध्वंसनैकप्रसिद्धाम् । संसाराब्ध्युत्तरणतरणीं मोदमानः स्वचित्ते, कृत्यं मेने सकलमखिलं चिन्तितं यच्चिरात्तत् ॥८५॥ ॥ इति श्रीनेमिसौभाग्यकाव्ये दीक्षाग्रहणपर्यन्तवर्णनात्मक
तृतीयः सर्गः ॥
118
विविध हैम रचना समुच्चय