________________
तत्राऽवतीर्णवान् श्रेष्ठि- जसराजात्मजस्य सः । सद्मन्यमरचन्द्रस्य, पुण्ये सौधोपमे वरे ॥७२॥ उपेत्योपाश्रयं नत्वा, गुरुपादकजद्वयम् । समाख्यन्निखिलं नैजं, तस्मै वृत्तान्तमादितः ॥ ७३ ॥ व्यजिज्ञपच्च रे भीम-भवकान्तारसाप ! । भवच्छरणसम्प्राप्तं, मामुद्धर दयानिधे ! ॥७४॥ वर्षत्रयकृतायास- बलेनाऽद्याऽऽगतोऽस्म्यहम् । भवत्सकाशे आदातुं, संयमं गुरुसत्तम ! ॥७५॥ कृपां विधाय मे नाथ !, भवदुःखापहारिणीम् । शिवप्रासादनिःश्रेणि, दत्त्वा दीक्षां कृतार्थय ॥ ७६ ॥ यद्यपि प्रोद्यतोऽसि त्वं, दीक्षायै वत्स ! साम्प्रतम् । किन्तु नोत्सहते चेत - स्तत्कृतेऽनुमतिं विना ॥७७॥ धृत्वा धैर्यमतो बाल !, विलम्बस्वाऽधुना कियत् । यावदाहूय ते तातं, तस्याऽनुमतिराप्यते ॥ ७८ ॥ असम्भावितमाकर्ण्य, गुरोरेवं वचस्तदा । म्लानाननो बभूवाऽसौ हिमदग्धारविन्दवत् ॥७९॥
?
"
विचारितञ्च तेनेद-मनुज्ञायै गृहं यदि । गन्ताऽस्म्यहं तदाऽऽयातु - मेष्टाहे पुनरेव नो ॥८०॥ विलम्बालम्बनेनाऽपि प्राप्स्याम्यनुमतिं नहि । विचार्येत्थमभूत् सज्ज आदातुं संयमं स्वयम् ॥८१॥ तेन सहाऽऽगतं तत्र, दुर्लभाख्यं तु भाविकम् । तादृग्विरोधविरहाद्, दीक्षयामास सत्वरम् ॥८२॥ तपस्विक्षान्तिविजया-न्तिषद्रत्नाभिधान्मुनेः । श्रीमुक्तिगणिनो धर्म - ध्वजं प्राप्य प्रमोदतः ॥८३॥ श्रीनेमिसौभाग्यमहाकाव्यम् (तृतीयः सर्गः )
117