________________
स्मरन् पूर्वकृताभ्यासं, धर्मानुष्ठानमाचरन् । काङ्क्षन् मुनिव्रतं शीघ्रं, सप्त मासान्निनाय सः ॥६०॥ तादृशं मुनिकल्पं तं, वीक्ष्य पित्रादयः समे । मेनेरेऽयं हि संसारे, न स्थास्यत्येव कर्हिचित् ॥६१॥ नागरब्राह्मणज्ञाति-स्तत्रत्यो रूपशङ्करः । लक्ष्मीचन्द्रस्य वचसा, नेमिचन्द्रमथाऽऽह्वयत् ॥२॥ पुरा साम्ना ततो दण्डात्, तेनाऽयं बोधितो बहु । मनाङ् न संयमादान-विचारात् श्लथितोऽभवत् ॥६३॥ दास्यन्ति संयमायैते, कथञ्चित्सम्मतिं न मे । विमृश्येति स मेधावी, गुप्तोपायं व्यचिन्तयत् ॥६४॥ स्वजनालक्षितो गत्वा, पुरं भावाभिधं रयात् । भवाभिष्वङ्गनिर्मुक्तः, संयम स्वीकरोम्यहम् ॥६५॥ तत्रैको झीणियाभिख्य, औष्ट्रिकः प्रावसज्जनः । उष्ट्रमारोह्य यो लोकान्, नयति स्म स्थलान्तरम् ॥६६॥ इच्छाचन्द्राभिधं साक्षि-तया मध्ये प्रकल्प्य सः । तमाहूय शुभे घस्ने, प्रस्थातुं निर्णयं व्यघात् ॥६७॥ अज्ञात एव केनाऽपि, गृहान्निःसृत्य सात्त्विकः । मुमुक्षुदुर्लभेनाऽसौ, निश्यागानराद् बहिः ॥६८॥ निर्धारितस्थले पूर्व-मेवाऽऽयातं स वीक्ष्य तम् ।
औष्ट्रिकं मुमुदेऽरं क, इष्टे दृष्टे न मोदते ? ॥६९॥ अतिवाह्य त्रयोऽप्येते, त्रियामां विजनास्पदे । निर्भयं, प्रातरुत्थाय, चोष्ट्रमारुह्य प्रस्थिताः ॥७॥ प्रान्तरेण यथा वर्ष-न्मेधैर्दुस्तीर्णसिन्धुभिः । अभीताः क्रमशः प्रापुस्तृतीयेऽह्रीष्टपत्तनम् ॥७१॥
विविध हैम रचना समुच्चय
116