________________
सुमनः सङ्गमासाद्य, कीटः सन्मूनि रोहति । एवं मर्त्यः सतां योगा-ज्जायते गुणभाजनम् ॥४८॥ भावपुरे मुनिप्रष्ठो, वृद्धिचन्द्रो विराजते । प्रेष्यस्तत्सन्निधौ सद्यो, यथा स्वस्थो भवेदसौ ॥४९॥ प्राप्तादेशो ययौ नेमि चन्द्रोऽथ भावपत्तने । दृष्ट्वा नत्वा गुरुं वृद्धि - चन्द्रं प्रापाऽतुलां मुदम् ॥५०॥ गुरोर्भद्रस्वभावस्य, कोमलस्य सुमादपि । सङ्गस्तस्मै कृपामूर्ते-र्भव्याय रुरुचेऽधिकम् ॥५१॥ जीवनं निखिलं तस्य, यापयितुं पदाब्जयोः । सर्वेष्टकामघटयोः सञ्जातः कृतनिश्चयः ॥ ५२ ॥
,
गुरुवक्त्रामृताम्भोद- वर्षितैर्वचनामृतैः । तद्वृदिस्था भृशं सिक्ता, ववृधे भावना लता ॥५३॥ संसाराद्विरतो रक्तो, ज्ञानाभ्यासे दिवानिशम् । गतं कालं न जानाति यथेन्द्रः सुरसद्मनि ॥ ५४ ॥ नर्मदाशङ्कराभिख्यः, शास्त्री श्रीमणिशङ्करः । बुधौ द्वौ संस्कृताभ्यास-मेनं कारयतो मुदा ॥ ५५ ॥ एकदा पत्रतोऽवेत्य, तातमातुर्मृतिं सकः । क्षणं विषद्य सद्बोधं निजतातमलीलिखत् ॥५६॥ संसारः सारहीनो ऽयं, न स्थिरः प्रियसङ्गमः । विहाय शोकं कर्तव्य-मतो धर्मे दृढादरः ॥५७॥ ज्ञात्वेत्यात्मभुवः पत्राद्, भवौदासीन्यमुत्कटम् । तत्स्नेहशृङ्खलाबद्धः, सुतं स्वं गृहमानयत् ॥५८॥
गृहागतोऽपि न स्वल्पं, तस्मिन् रक्तोऽभवत् सुधीः । स्थितो देहेन गेहेऽसौ हृदा तु गुरुसन्निधौ ॥५९॥
श्रीनेमिसौभाग्यमहाकाव्यम् (तृतीयः सर्गः )
,
115