________________
कृत्वा किमपि वाणिज्य-मर्जयित्वा घनं धनम् । स्वजनानामहं भार-मपनेष्यापि साम्प्रतम् ॥३६॥ इति सञ्चिन्त्य संज्ञावान्, बुद्धिकाञ्चनशाणकम् । सट्टाभिधानमारेमे, वैपण्यं स शनैः शनैः ॥३७॥ सद्भाग्ययोगतः पूर्वं, किञ्चित् सम्प्राप्तवान् धनम् । किन्तु पश्चादभूत् तस्य, धनहानिर्हि भूयसी ॥३८॥ एकदा देवचन्द्राऽऽह्वो, जगाद तत्पितामहः । एतद्व्यापारमुत्सृज्य, श्रयाऽन्यद् भयवर्जितम् ॥३९॥ तमसौ सस्मितं प्राह, समीचीनं भवद्वचः । कथमेतद्विना मर्त्यः, किन्तु कौशल्यमाप्नुयात् ? ॥४०॥ इति नम्रगिरा सम्य-गनुनीय पितामहम् । व्यवसायादिकं कुर्वन्, न तत्र निरतोऽभवत् ॥४१॥ अपि दध्यौ भवेऽस्मिश्चेत्, क्लेशार्जितधनादिकम् । सर्वं विहाय गन्तव्यं, को गुणस्तदुपार्जने ? ॥४२॥ दृश्यते यद्दिनारम्भे, न मध्याह्ने तदीक्ष्यते । मध्याह्ने यन्न तद्रात्रा-विति सर्वं चलं भुवि ॥४३॥ धर्मसाधनसामग्री-संयुतं प्राप्य दुर्लभम् । मानुष्यं जन्म नो कुर्यां, धर्मं प्रेत्यहितावहम् ॥४४॥ तदाऽवकेशिशाखीव, निष्फलो मे भवेज्जनुः । यतितव्यमतोऽवश्यं, मया धर्मे जिनोदिते ॥४५॥ इति चिन्तानिमग्नं तं, ध्यानस्थितमिवाऽऽत्मजम् । वीक्ष्य पित्रादयः सर्वेऽभूवन् कामं व्यथातुराः ॥४६॥ . सौस्थ्याय तस्य कर्तव्यः, कोऽप्युपायः फलेग्रहिः । इति सम्यग्विचार्येत्थं, निश्चिक्युस्ते स्वमानसे ॥४७॥
विविध हैम रचना समुच्चय
114