________________
तस्मिन् दिग्वर्ष(८) देशीये, प्रसङ्गोऽयमुपस्थितः । भूतव्युद्ग्राहितेवाऽभूत्, काचित्तत्र नितम्बिनी ॥२४॥ सर्वेऽपि कथयामासु-र्जनास्तस्याश्चमत्कृताः । देवीवेयं विजानाति, भावान् भूतैष्यतो नृणाम् ॥२५॥ कुतूहलवशात् सर्वैः, सार्द्धं तत्र गतो ह्ययम् । मन्वानोऽप्यनृतं सर्वं, तत्स्त्रियाश्चरितं ननु ॥२६॥ कूटाकारां निरीक्ष्याऽपि, सर्वथा निर्भयः स तु । मुष्टिं बद्ध्वा जगादैनां, यदि सर्वमवैषि चेत् ॥२७॥ तदा मे मुष्टिमध्ये किं, विद्यते, ब्रूहि पण्डिते ! । नो चेत्त्वां किल वेत्स्यामो, धूर्तविद्यापरायणाम् ॥२८॥ सा तत्प्रतिवचोदाने-ऽसमर्था बुधमानिनी । भृशं विलक्षा सर्वेषां, हास्यपात्रमभूत्तदा ॥२९॥ निर्भयत्वं च चातुर्य-मस्य वीक्ष्य शिशोरपि । अन्वमंसत बालस्य, सर्वेऽपि भाविभव्यताम् ॥३०॥ आङ्ग्लद्वितीयकक्षाया-मुत्तीर्णाय प्रतिकृतिम् । ददावुपायनं तस्मै, महेभ्यो मनजी कृती ॥३१॥ नत्थु-मञ्छाभिधस्तस्मिन्, कालेऽभून्मायिकाग्रणीः । असम्भावितमप्यर्थं, दर्शयित्वा स्थले स्थले ॥३२॥ आश्चर्याम्भोधिसंभग्नान्, तत्क्रियाहृतमानसान् । नरानाबालवृद्धान् यः, कृतवान् स्वीयशक्तितः ॥३३॥ (युग्मम्) तच्छक्तिदर्शनोत्पन्न-निजोत्कर्षदृढाग्रहः । स्वं विश्वाप्रतिमं कर्तुं, मानसे निश्चिकाय सः ॥३४॥ उत्तीर्णोऽपि परीक्षायां, बुद्ध्याऽविरहितश्च सः ।
तातभारापनोदाया-ऽध्ययनेऽभूनिरुत्सुकः ॥३५॥ श्रीनेमिसौभाग्यमहाकाव्यम् (तृतीयः सर्गः)
113