________________
अकस्मात्तन्मुखादुद्यद्-धर्मनिस्यूतभाषितम् । तस्य प्रत्याययत् पूर्वा-चीर्णामिव सुसाधुताम् ॥१२॥ विद्यया वपुषा कान्त्या, वर्धमानो निरन्तरम् । प्रकृत्याऽजनि नम्रः स, विटपीव फलोद्गमैः ॥१३॥ गृहे विद्यालये क्रीडाङ्गणे सौभाग्यशेवधिः । सर्वत्र चाऽपि सर्वेषा-मभूत् प्रीतिकरो भृशम् ॥१४॥ तत्क्षणं सकलां विद्यां, दधौ धीमान् स पाठकात् । पूर्वजन्मार्जितां सद्य-आगतामिव मोदितुम् ॥१५॥ संस्कारवारिपानाय, प्रपातुल्ये वसन् गृहे । सद्धर्मनीतिवार्ताभि-र्जीवनं स्वमकल्पयत् ॥१६॥ जगत्यादर्शचारित्रं, विधातुं निजनन्दनम् । जागरामासतुस्तस्य, पितरौ हि दिवानिशम् ॥१७॥ मातापित्रादयः सर्वे, प्रसन्नं वीक्ष्य स्वं सुतम् । विनयं मूर्तिमन्तं च, खेदं सर्वं विसस्मरुः ॥१८॥ कृतद्रव्यानुयोगादि-पाठभूरिश्रमः सुधीः । यस्य स्याज्जनकः किं स, भवेज्ज्ञानदरिद्रितः ? ॥१९॥ राज्याधिकारिणस्तेन, लक्ष्मीचन्द्रेण धीमता । चर्चा स्वविषयां कर्तु-माजग्मुस्तस्य वेश्मनि ॥२०॥ प्रस्तूयमानान् तैः सार्द्ध, वार्तालापान् रसेन सः । अश्रौषीनिभृतं बालो-ऽप्यलक्षितनिजागमः ॥२१॥ (युग्मम् ) अनुजौ बालचन्द्राद्यौ, भगिन्यः प्रीतिनिर्भराः । सामीप्यमेकसूत्रोता, मुमुचुरिव नो मनाक् ॥२२॥ बाल्यतोऽपि स निर्भीकः, सत्यप्रियोऽभवत् सदा । कस्याऽपि दूषणं नैवा-ऽपहृते स्म कदाचन ॥२३॥
विविध हैम रचना समुच्चय
112