________________
(तृतीयः सर्गः )
"
अथोचितं कुमारं स्वं वीक्ष्य तातः शुभायतिम् । पाठाय पाठशालायां, मुमोच समहोत्सवम् ॥१॥
पुष्पचन्दनवस्त्राद्यैर्भारतीं भाविभासिनीम् । पूजयित्वा लसद्भक्त्या, तुष्टुवे च स्थिरात्मना ॥२॥ धनवेशादिकं भूरि, प्रददौ प्रथमान्वितम् । उपाध्यायाय सच्छास्त्र - महाब्धेः पारदृश्वने ॥३॥ लेखिनी पुस्तकादीनि भक्ष्यक्रीडनकाद्यपि । अवाप्य हर्षितस्वान्ता:, छात्रा: संजज्ञिरे समे ॥४॥ सम्मानितोऽथ तं प्रीत्या, श्रीमयाचन्द्रपाठकः । अनन्यावहितचित्तेन, पाठनायोद्यतोऽभवत् ॥५॥ स नवीनागतो बालः, शुशुभे छात्रमण्डले । आकाशे विशदे दीप्यन्नक्षत्र इव चन्द्रमाः ॥६॥ अपि विद्यार्थिनस्तेन, मार्दवौदार्यशालिना । सख्याय स्पर्द्धयामासुर्नेमिचन्द्रेण धीमता ॥७॥ संस्कारात् पौर्वभविकात्, सकृच्छ्रतमपि श्रुतम् । वज्ररेखेव संसक्त-मभूत् तस्मिन् सनातनम् ॥८॥ पठन्नवहितत्वेन, स विद्यां व्यावहारिकीम् । विशेषाद् धार्मिकाभ्यासे, बद्धलक्ष्योऽभवत् क्रमात् ॥९॥ जिनार्चास्तवन- ध्यानं, गुरूणां वन्दनादिकम् । सामायिकाद्यनुष्ठानं, तन्मनो रमयत्यलम् ॥१०॥
?
वयस्यैः क्रीडमानः स, सवयोभिः कदाचन । नीतिमान् भूप इव न, प्रतिज्ञातं व्यलङ्घत ॥११॥ श्रीनेमिसौभाग्यमहाकाव्यम् (तृतीयः सर्गः )
111