________________
श्रेष्ठी ततानाऽऽदशवासरं स, जन्मोत्सवं स्वीयसुतस्य वर्यः । ददौ च वर्धापनिकानिमित्तं, समीप्सितं सर्वजनेभ्य आशु ॥५८॥ बालो ह्ययं धर्मस्थितस्य नून-माधारभूतो भवितेति वीक्ष्य । सन्नेमिवत् स्वात्मभुञ्चकार, नाम्ना स नेमि जनकोऽन्वगर्थम् ॥५९॥ गुणेन जात्या वयसा समानै-राक्रीडमानः शिशुभिर्वयस्यैः । सत्यापयन् भावि निजोत्तमत्व-मिवाऽऽप न क्वाऽप्यपकृष्टभावम् ॥६०॥ बालेऽप्यबालप्रतिभेऽचकासन्, गुणा विवेकप्रमुखा हि तस्मिन् । तन्नाऽद्भुतं संस्कृतभूमिकायां, चित्रं भवेल्लोकदृगुत्सवाय ॥६१॥ एकाग्रतानन्तमिवेक्ष्य बालं, काले कदा योगिनमात्मनिष्ठम् । वृद्धा जगू रे शिशुरेव पूर्व-भवात्मयोगीति वितर्कयन्तः ॥६२॥
इति वृषसुततुल्यो नेमिचन्द्रो हि बालो,
मुदितपरिजनानां स्नेहवृष्ट्या प्रकामम् । श्रुतिपथमधुरैश्चाऽऽसिच्यमानो वचोभि
निमिषमिव सहेलं बाल्यकालं निनाय ॥६३॥ ॥ इति श्रीनैमिसौभाग्यकाव्ये जन्मवर्णनात्मकः द्वितीयः सर्गः ॥
110
विविध हैम रचना समुच्चय