________________
स्वैराशु संपूरितदोहदा सा, चेतःप्रसत्तिं परमां दधार । भाग्येऽनुकूले सति मानवानां, फलावसाना हि मनोरथाः स्युः ॥४७॥ अङ्काक्षिनन्देन्दुमितेऽथ वर्षे (१९२९), श्रीवैक्रमे कार्तिकशुक्लपक्षे । असोष्ट सूनुं प्रतिपत्तिथौ सा, प्रोद्यन्तमैन्द्री दिगिवोष्णरश्मिम् ॥४८॥ गृहञ्च चेतः सममेव लक्ष्मीचन्द्रस्य तूर्यध्वनिभिः प्रमोदैः । आपूरितं, माद्यति को न लोके, मनोरथे सिद्धयति काम्यमाने ? ॥४९॥ बुधेन्दुशुक्राञ्चितकर्मभूमौ, धर्मस्थितेऽर्के, तनयेऽस्य लाभे । 'यामित्रभावे गुरुभौमयुक्ते, तमोग्रहे तुर्यगते घटेऽङ्गे ॥५०॥ इतिग्रहाणां सुगृहस्थितानां, प्रभावसंसूचितभाग्यलक्ष्मीः । प्राभूत् तनूजो विदितः स लक्ष्मीचन्द्रस्य सद्धार्मिककीर्तितस्य ॥५१॥ नीचस्थितार्काम्बुजराशिभोंः, केन्द्रस्थयोः काव्यमहीजयोहि । नृपोऽथवा धार्मिकचक्रवर्ती, भविष्यतीत्येवमवक् विधिज्ञः ॥५२॥ स्वीयेऽन्वये पुत्रजनिं निशम्य, प्रहर्षिता ज्ञातिजना बभूवुः । कुलाङ्गना हर्षविसर्पिचित्ता, मत्ता व्यधुर्मङ्गलगीतगानम् ॥५३॥ स जातमात्रोऽपि शिशुळजैषीद्, धाम्ना परं धामनिधि दिनेशम् । जिगाय सौम्येन च शीतभानु, नामावशेषीकृतसर्वदृश्यम् ॥५४॥ शनैः शनैः वृद्धिमियाय बालः, कामं द्वितीयाविधुवद् वरेण्यः । निरीक्ष्य तद्रूपमनिन्द्यमूचुर्महानुभावत्वममुष्य विज्ञाः ॥५५॥ कालोदिताम्भोजदलानुकारिनेत्रे गतिर्बालमरालतुल्या । वचः प्रियं काहलमय्यनल्पमहोऽस्य सर्वं वचसामगम्यम् ॥५६॥ अभूत् प्रियो दर्शनमात्रतोऽपि, सौभाग्यकर्मोदयान् समेषाम् । अङ्काङ्कसंरोपणतः कदाचिच्छशाक भूमौ न हि सोपवेष्टम् ॥५७॥
१. यामित्रभावः - सप्तमस्थानम् । २. अङ्गे - लग्ने ।
श्रीनेमिसौभाग्यमहाकाव्यम् (द्वितीयः सर्गः)
109