________________
कौमुद्याः शास्त्रार्था-नवधार्य यथाश्रुतान् स गुरुवदनात् । अस्खलितं श्वो दिवसे, सर्वानश्रावयत् स गुरुम् ॥११॥ नाथालालश्चकितो-ऽप्यधीत्य काश्यां समागतो विद्वान् । यद्वाग्धारां वादे, श्रुत्वाऽस्खलितप्रचारां द्राक् ॥१२॥ काव्यं रघुवंशाख्यं, किरातकाव्यं च सोऽपठद् धीमान् । अपि वत्सरपर्याये, सतताध्ययनैकरतबुद्धिः ॥१३॥ प्रादुरभूत्तद्देहे-ऽसातोदयतो ज्वरो महास्निग्धः । अपि वत्सरे व्यतीते, नोपायशतैर्व्यपेतः सः ॥१४॥ तेनाऽभ्यासे विघ्नः, प्रवर्तमाने ह्युपस्थितः प्रबलः । चिन्ताक्लान्तं चित्तं, ततोऽभवन्नेमविजयस्य ॥१५॥ अनभ्यसनखिन्नहृद, पूज्यश्रीवृद्धिचन्द्रगुरुवर्यः । समबोधयन्मधुरया, शिरीषमृद्वया गिरा तमिति ॥१६॥ मा खिद्यस्व मुने ! त्वं, खेदेन हि नाशमेति वरबुद्धिः । झटिति स्वस्थो भूत्वा, पुनरपि पाठं विधाताऽसि ॥१७॥ दीर्घज्वरोष्मवशत-स्तन्नेत्रे मन्दतेजसे जाते । आम्ररसव्यापृत्या, क्रमशः स्फीततेजसेऽभवताम् ॥१८॥ कतिभिर्मुनिभिः सार्द्ध, गुर्वाज्ञातो विहृत्य जैनपुरीम् । अगमत् पंन्यासवर्य-प्रतापविजयस्य सान्निध्ये ॥१९॥ ड्हेलोपाश्रयमध्ये, तदा स आसीन्मुनीश्वरैः परितः । राजन्नार्हतधर्म-प्रभावकः श्रुतवयःस्थविरः ॥२०॥ तत्पाबें विधिपूर्वं, योगोद्वहनं विधाय शुभदिवसे । वर्योत्सवेन जगृहे, पुण्योपस्थापनां स ततः ॥२१॥ अहम्मदावादपुरे, चैत्यावलिराजिते पुरप्रवरे ।
धर्माढ्यजनाकीर्णे, कञ्चित्कालं स्थितिं कृतवान् ॥२२॥ श्रीनेमिसौभाग्यमहाकाव्यम् (पञ्चमः सर्गः)
127