________________
तालै रसालैरपि नारिकेलैरेलाभिधानैः कदलीविशेषैः । वातैः सुगन्धैः सरसैश्व यस्मिन्, ग्रीष्मेऽपि शैत्यानुभवं वहन्ति॥२३॥(युग्मम्) शीतैः पयोभिर्मधुरैश्च नादैः प्राधूर्णिकानां स्वपुरागतानाम् । निरन्तरं स्वागतमाचरन्ती, यत्राऽऽपगा राजति मालणाख्या ॥२४॥ चैत्ये वरे काचमणिप्रणीतैश्चित्रैरतिशोभितेऽत्र ।। मूर्तिः प्रभोर्वीरजिनस्य जीवत्स्वामीति नाम्ना प्रथिता चकास्ति ॥२५॥ समन्ततो भक्तजना असङ्ख्याः , समर्चनोपस्करशोभिहस्ताः । प्रातः समेत्याऽपचितिं नयन्तो यदाश्रयाज्जन्म कृतार्थयन्ति ॥२६॥ इभ्याः सदा सङ्गतबन्धुवर्गाः प्रतिश्रयं प्रातरुपेत्य यत्र । नत्वा मुनीन् तद्वदनानिशम्य, धर्म्यं वचो जन्मफलं लभन्ते ॥२७॥ राजन्ति यत्राऽऽर्हतभक्तिभाजां, शतत्रयं शिल्पकलापराणि । वेदोक्तधर्माहृतमानसानां, सद्मान्यनेकानि सतां द्विजानाम् ॥२८॥ सद्धर्मनिष्ठं शुचिशीलयुक्तं, न्यायार्जितश्रीकृतसन्निवासम् । अन्योन्यसौहार्दमथाऽस्ति पद्मा-तारेतिनाम्ना प्रथितं कुटुम्बम् ॥२९॥ तस्मिन् नृरत्नाब्धिकुले कृतज्ञो, जैनेन्द्रधर्माहितसौवचित्तः । सन्मान्यवर्यो जनिमाप लक्ष्मी-चन्द्राभिधोऽन्वर्थगुणो महेभ्यः॥३०॥ औदार्यगाम्भीर्यमुखैर्गुणौधैर्न केवलं स स्वजनप्रियोऽभूत् । तस्मिन् समस्तेऽपि तु पत्तने स, सम्प्राप्तवान् सर्वजनप्रियत्वम् ॥३१॥ प्राप्तप्रतिष्ठो विरराम नाऽपि, कर्तव्यमार्गात् स सुधीः कदाचित् । गुणेष्वतृप्तो गुणिषु स्पृहावान्, धर्मे रतश्चाऽपि बभूव नित्यम् ॥३२॥ तद्गेहिनी स्वामिवचोऽनुषक्ताऽजनिष्ट धर्मैकधना दिवाळी । दीपावलीवत् सुगुणप्रदीपैः, कुलाम्बरं प्रोज्ज्वलितं ययाऽऽशु ॥३३॥ सर्वासु नैपुण्यवती क्रियासु, जाता प्रिया स्वल्पदिनैहे सा । पुरेऽपि तस्मिन् सदृशाबलानाम्, आदर्शभूताऽजनि सैव सुज्ञा ॥३४॥ श्रीनेमिसौभाग्यमहाकाव्यम् (द्वितीयः सर्गः)
107