________________
विराजते तत्र पुरी मनोज्ञा, सुदर्शनीया मधुमत्यभिख्या । यामद्भुतश्रीकलितां निरीक्ष्य, स्वर्वासकामं विबुधा न चक्रुः ॥११॥ इमां पुरीं प्राङ्नैपविक्रमार्को, ग्रामैर्युतां द्वादशभिय॑यच्छत् । प्रहर्षितः सद्वरभावडाय, सूनुरतदीयोऽजनि जावडाह्वः ॥१२॥ अथैकदा विस्मयकृच्चरित्रः, समागतो वज्रमुनीश्वरोऽत्र । सुधाभमाकर्ण्य वचस्तदीयमुत्कोऽभवज्जन्मकृतार्थतायै ॥१३॥ तदीयवाचोल्लसितात्मभावः, शत्रुञ्जयं शाश्वततीर्थराजम् । उद्धृत्य भूरिद्रविणव्ययेन, चलाञ्चकाराऽप्यचलां स रायम् ॥१४॥ (त्रिभिर्विशेषकम्) यस्यां प्रसूतो जगडूमहेभ्यः, स्पर्धायमानो धनदेन ऋद्धया । कोटित्रयादप्यधिकं हिरण्यं, व्ययीचकाराऽव्ययशैलमुख्ये ॥१५॥ श्रीहेमचन्द्रान्वितभूमिपालः, कुमारपालः परमार्हतोऽत्र । सङ्केन सङ्गम्य पुरीं स जीवत्-स्वामीशवीरं विभुमाववन्दे ॥१६॥ मन्त्रीश्वरो धर्मधनो हि तेजःपालद्वितीयो बुधवस्तुपालः । सङ्घाधिपः सन्नुपगत्य यत्र, ध्वजं समारोपितवान् स चैत्ये ॥१७॥ संवत्सरे षड्गगनाग्निचन्द्रे (१३०६), देवेन्द्र-चन्द्राभिधसूरिवौँ । संस्थापयामासतुरात्मदिष्ट्या, 'वाग्देवताकोष'मनन्यमत्र ॥१८॥ नगर्षिवेदेन्दुमिते हि वर्षे (१४७७), श्रीवैक्रमे सोत्सवमत्र सूरेः । पदं ददौ श्रीजिनसुन्दराय, सोमादिमः सुन्दरसूरिराजः ॥१९॥ यत्रोद्भवो राघवजीतनूजो, वाक्कीलकः श्रावकवीरचन्द्रः । गत्वा युरोपे जिनधर्मतत्त्वं, प्रावीविशत्तत्स्थितमानसेषु ॥२०॥ श्रीधर्मसूरिः किल यत्प्रसूतः, श्रीनेमिसूरेर्गुरुबन्धुवर्यः । संस्थाप्य यः संस्कृतपाठशालां, काश्यामनेकान् विदुषश्चकार ॥२१॥ दिवा विधेयेषु निमग्नचित्ताः, सायं जना यत्र पुरे वसन्तः । तरङ्गमङ्गोल्लसितं पयोधेनिरीक्ष्य नैजं श्रममाक्षिपन्ति ॥२२॥
विविध हैम रचना समुच्चय
106