________________
ढुण्ढकसङ्के येन, प्रवर्तितः शुद्धधर्मसन्देशः । कतिपयमुनयो जगृहुः, संवेगित्वं निजेन सह ॥१४०॥ नितरां भद्रप्रकृति-बहुसङ्ख्यकशिष्यवृन्दपरिकलितः । पञ्चनदीयो मुनिराट्, न हि केषां शंसनीयोऽभूत् ॥१४१॥ (चतुर्भिः कलापकम्) तच्छिष्येषु प्रथमो, जातो गणिराजमुक्तिविजयाह्वः । प्रौढप्रभावनिलयो विदितोऽजनि मूलचन्द्र इति ॥१४२॥ संयमशैथिल्यं य-स्तत्कालीनं व्यपाचकार गणिः । साधूनां वर्यो यः, प्रस्थापितवान् श्रमणसङ्घे ॥१४३॥ केन्द्रस्थितसुरगुरुरिव, शासति तस्मिन् सुधर्मसाम्राज्यम् । सुस्थितमापुः सर्वा-ण्यपि धर्माङ्गानि सर्वत्र ॥१४४॥ (त्रिभिर्विशेषकम् ) सरलाशयो गुणाढ्यो गीतार्थो वृद्धिचन्द्रपुण्याख्यः । आसीदसौ द्वितीयः, संस्मारितपूर्वसत्पुरुषः ॥१४५॥ वैराग्यामृतवारिधि-रजनि तृतीयो हि नीतिविजयाह्वः । आनन्दविजयनामा, तुर्योऽभूच्चाऽपि सच्चरितः ॥१४६॥ श्रीमोतिविजयसंज्ञो, मुनिगणगण्यो हि पञ्चमो जातः । सूरिविजयानन्दः षष्ठोऽभूल्यायपाथोधिः ॥१४७॥ आत्मनि सततं रमणादात्मोद्धाराय चोपदेष्टुत्वात् । वसुधायां ख्यातोऽभू-दात्मारामेति नाम्ना यः ॥१४८॥ यश्च दयानन्दमुखान्, विजित्य वादे यशो वरं लेभे । स्याद्वाददर्शनस्य, प्रवर्तितो येन जयघोषः ॥१४९॥ योऽज्ञानतिमिरभास्कर-तत्त्वादर्शादिसत्कृतीविदधे । पञ्चनदे कृतवाँश्च प्रभावनां जैनधर्मस्य ॥१५०॥ (चतुर्भि कलापकम् ) षष्ठाभिग्रहधारी, पञ्चनदीयो हि सप्तमो जातः । श्रीखान्तिविजयनामा, निजपरहितसाधनैकमनाः ॥१५१॥ श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः)
103