________________
तत्पभूषणोत्तम-उत्तमविजयाभिधो गणिर्जातः । गूर्जरसौराष्ट्रादौ बहुश्रुतो यो विजहेऽरम् ॥१२९॥ अष्टप्रकारपूजां, श्रीजिनविजयनिर्वाणरासञ्च । रचयित्वोपकृति यो, व्यदधादधुनातने लोके ॥१३०॥ तत्पट्टे पन्न्यासः, पूज्यः श्रीपद्मविजयनामाऽभूत् । श्रीधर्मसूरिकरतो, योऽभूत्पन्न्यासपदशाली ॥१३१॥ यः सकलागमसागर-पारीणः कविवरः क्रियानिष्ठः । ख्यातोऽभूदिह भुवने, पूज्यः परमद्रहाभिधया ॥१३२॥ उत्तमविजयकरास-स्तवन-स्तुतिदेववन्दनप्रभृतिः । यत्कृतकृतिसन्दोहोऽधुनाऽपि जनमानसं हरति ॥१३३॥ (त्रिभिर्विशेषकम्) समजनि तदीयपट्टे पंन्यासो रूपविजयकविवर्यः । शरवेदागमपूजां, निजगुरुरासादि योऽरचयत् ॥१३४॥ पन्न्यासकीर्तिविजय-स्तत्पदमचकासयद् विततकीर्तिः । यद्गुरुबन्धव आसन्, कविमोहन-जीवविजयाद्याः ॥१३५॥ कस्तूरविजयनामा, पंन्यासस्तत्पदेऽजनिष्ट गणिः । येन जनुः स्वं सफलं, विदधे श्रामण्यपालनतः ॥१३६॥ श्रीमन्मणिविजयाह्वः, पंन्यासोऽलञ्चकार तत्पट्टम् । योऽप्रतिबद्धविहारी, प्रशान्तमूर्तिस्तपोनिष्ठः ॥१३७॥ तत्पट्टाब्जविकासी, पूज्यः श्रीबुद्धिविजयनामाऽभूत् । निःस्पृहशिरोमणिर्यो, योगिवरः स्वात्मसन्निष्ठः ॥१३८॥ अपि धृतढुण्ढकदीक्षो, दृष्ट्वा शत्रुञ्जयं महातीर्थम् । संवेगदीक्षितोऽभूत, सार्वागमविदितपरमार्थः ॥१३९॥
• ४५ आगमपूजाम् ।
102
विविध हैम रचना समुच्चय