________________
तत्पट्टकाननहरि-र्जातः श्रीविजयसिंहसूरीशः । दीक्षामासादितवान्, यो वयसो हायने दशमे ॥१३॥ विहरन् हिं मेदपाटे, मरुधरविषये च गूर्जरे देशे । समहं प्रस्थापितवान्, परःशता यो जिनप्रतिमाः ॥१४॥ सूरिपदमहो येषां, नगर इलादुर्गनाम्नि सञ्जातः । तस्मिन् सहजूश्राद्धो, भूरितरं व्ययितवान् वित्तम् ॥१५॥ श्रीसिंहे स्वर्गवति, गच्छाभ्युदयाय देवसूरीशः । कञ्चन सुयोग्यपुरुषं, नियोक्तुमैच्छत् स्वकीयपदे ॥१६॥ श्रीसूरिमन्त्रजापात्, प्रत्यक्षीभूय मन्त्रराजसुरः । श्रीवीरविजयनाम्नः, सूरिपदार्हत्वमाचष्ट ॥१७॥ तीर्थे श्रीगन्धारे, सङ्घीभूय प्रभूतपुरसङ्घः । प्रारब्धे जिनचैत्ये, सहर्षमष्टाह्निकाख्यमहे ॥१८॥ गुरुदेवसूरिवर्योऽदात्सूरिपदं हि वीरविजयाय । उद्घोषितस्तदानीं, विजयप्रभसूरिरिति नाम्ना ॥१९॥ कृतसंस्कारो मणिरिव, भृशं दिदीपे स सूरिपदकलितः । जिनप्रतिष्ठाकृत्यैः प्राभावयदार्हतं धर्मम् ॥१०॥ श्रीसिंहसूरिपट्टे, पन्न्यासः सत्यविजयनामाऽभूत् । कृत्वा क्रियोद्धृति यः, शैथिल्यमपाकरोदुच्चैः ॥१०१॥ तत्समयेऽष्टावभव-नार्हतधर्मप्रभावका मुख्याः ।। यदुपकृति बहुमान्या, अधुना सर्वेऽपि मन्यन्ते ॥१०२॥ (युग्मम्) योगिवरेण्यः श्रीमा-नानन्दघनो बभूव निजमग्नः । नृणामध्यात्मरुचिं, यत्स्तवन-पदानि पुष्यन्ति ॥१०३॥ वाचकवर्यो विनयः, शास्त्राम्बुधिपारगो द्वितीयोऽभूत् । आनन्दयन्ति विदुषः, सम्प्रत्यपि यत्कृताः कृतयः ॥१०४॥ श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः)
99