________________
तत्पदमलङ्करिष्णु-र्जातः श्रीमानदेवसूरीशः । उपधानविषयशास्त्रं, निर्मायाऽरीरमल्लोकान् ॥३५॥ तत्पट्टालङ्कारो, जातः श्रीविमलचन्द्रसूरीशः । यो हेमसिद्धिविद्यां, प्राप्तोऽजैषीत्यरान् वादे ॥३६॥ तत्पट्टाम्बुजतरणिः, श्रीमानुद्योतनाभिधो जातः । अर्बुदगिरेरधस्तात्-टेलीपुरसीम्नि सङ्गत्य ॥३७॥ वटवृक्षाधो योऽष्टौ, सूरीन् प्रातिष्ठिपन्निजे पट्टे । तस्मादभूद्गणोऽयं नाम्ना वटगच्छशुभसञ्जः ॥३८॥ तत्राऽभवत्प्रशस्यः, सूरिः श्रीसर्वदेवनामा यः । प्रास्थापत्सुचन्द्र-प्रभबिम्बं रामसैन्यपुरे ॥३९॥ गौतमगणधरवद्यस्तथाऽभवत्-शिष्यलब्धिसंपन्नः । श्रीकुङ्कुणं प्रधानं, प्रबोध्य किल दीक्षयाञ्चके ॥४०॥ (युग्मम्) श्रीदेवसूरिनामा, जातस्तत्पट्टपूर्वदिग्भानुः । 'रूपश्री'रिति बिरुदं, नृपदत्तं यो दधौ रुचिरम् ॥४१॥ नाम्ना श्रीसर्वदेव-सूरिः प्राभासयत्तदीयपदम् । शिष्ययशोभद्रमुखा-नकृताष्टौ सूरिपदभाजः ॥४२॥ तत्पट्टकमलकैरव-विकासकृद्रविविधू विरेजाते । सूरियशोभद्राख्यः, तथाऽपरो नेमिचन्द्र इति ॥४३॥ तत्पट्टकमलमिहिरः, श्रीमुनिचन्द्राभिधोऽभवत्सूरिः । सौवीरमात्रपायी, प्रत्याचख्यौ स षट् विकृतीः ॥४४॥ हरिभद्रसूरिरचिताः, कृतयोऽनेकान्तजयपताकाद्याः । तार्किकवर्येण येन, विहिताः सुखबोधवृत्तियुताः ॥४५॥ सूरिरजितदेवाख्यः, तत्पढें शोभयाञ्चकार भृशम् । तद्गुरुबन्धुर्वादी, जितकुमुदो देवसूरिरभूत् ॥४६॥
विविध हैम रचना समुच्चय
94