________________
तत्पदशोभाकरणो, जातः श्रीविजयसिंहसूरीशः । सोमप्रभमणिरत्नौ, सूरीशौ तत्पदेऽभवताम् ॥४७॥ मणिरत्नसूरिपट्टे, द्योतितवान्, सूरिराट् जगच्चन्द्रः । बुधदेवभद्रसङ्गात्, साधितवान् यः क्रियोद्धारम् ॥४८॥ द्वात्रिंशदिग्वसना-चार्यैर्वादं प्रतन्वता जयता । येनाऽऽपि भूपदत्तं, ह्याघाटे 'हीरला' बिरुदम् ॥४९॥ आजीवनमाचाम्ला-भिग्रहतः प्राप्तवान् तपाबिरुदम् । तत आरभ्य गणोऽयं, विख्यातोऽभूत् तपाभिधया ॥५०॥(त्रिभिर्विशेषकम् ) सूरिर्देवेन्द्राह्वो, जज्ञे तत्पट्टभून्महाप्राज्ञः । श्राद्धदिनकृत्य-कर्मग्रन्थमुखा यश्चकार कृतीः ॥५१॥ तत्पढें दिनकरवद् व्यभासयद्धर्मघोषसूरीशः । पृथ्वीधरो यदुक्त्याऽभूषयदूर्वी जिनौकोभिः ॥५२॥ यश्च समर्थः सूरिॉगिवरं दुर्जयं महामायम् । जित्वाऽवन्तीपुर्यां, श्रमणान् निरुपद्रवीचक्रे ॥५३॥ (युग्मम्) श्रीसोमप्रभसूरिस्तत्पट्टाकाशभास्करो जज्ञे ।। यतिजीतकल्पसूत्र-प्रमुखान् जग्रन्थ यो ग्रन्थान् ॥५४॥ तत्पदृशुक्तिमौक्तिक-आचार्यः सोमतिलकनामाऽभूत् । नव्यं क्षेत्रसमासं, प्राणैषीद्यः स्तवादि तथा ॥५५॥ . तत्पट्टे सूरिवरो, देवादिमसुन्दरोऽजनिष्ट कृती । उदयीपाभिधयोगी, निजगुरुवचसा ववन्दे यम् ॥५६॥ तत्पदमबुभूषच्छ्री-सूरीशः सोमसुन्दरो नाम । योऽरचयद्योगशास्त्र-भाष्यमुखाः सत्कृतीर्बहुशः ॥५७॥ धरणाशाहविनिर्मित-चैत्ये त्रैलोक्यदीपके यश्च । प्रातिष्ठिपदादिनाथ-मुखमूर्ती राणके समहम् ॥५८॥ (युग्मम्) श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः)
95