________________
यत्पददानावसरे, स्कन्धगते वीक्ष्य शारदाकमले । चारित्रच्युतिशङ्का-शीलं मत्वा स्वगुरुवर्यम् ॥२३॥ यावज्जीवं विकृतीः, षट् प्रत्याख्याच्च भक्तकुलभिक्षाम् । पद्मा-जयादिदेव्यो, यत्परिचर्यां च सञ्चक्रुः ॥२४॥ (युग्मम्) श्रीमानतुङ्गनामा, सूरिर्जातस्तदीयपट्टधरः । प्रतिबुबुधे नृपति यो, विरच्य भक्तामर स्तोत्रम् ॥२५॥ श्रीमान् वीराचार्य-स्तदीयपट्टेऽजनिष्ट सूरीशः श्रीनमिजिनप्रतिष्ठां, नागपुरे यो व्यधाद् वर्याम् ॥२६॥ श्रीजयदेवाभिख्य-स्तत्पट्टप्रभाकरोऽभवत्सूरिः । यो वादिनो व्यजैषी-निरूप्य जैनेन्द्रसिद्धान्तम् ॥२७॥ देवानन्दाभिधानः, सूरीशोऽभूत्तदीयसत्पट्टे । तत्पट्टे सूरीशो, विक्रमनामाऽभवत्पूज्यः ॥२८॥ सूरिस्तदीयपट्टे, श्रीनरसिंहः श्रुतार्णवो जातः । येन पुरे नरसिंहे, मांसं सन्त्याजितो यक्षः ॥२९॥ तत्पट्टोदधिजन्मा, समुद्रनामाऽजनिष्ट सूरीन्दुः । वशमकृत नागतीर्थं, विजित्य दिग्वाससो वादे ॥३०॥ प्रापाऽम्बिकामुखाद्यो, विस्मृतमपि सूरिमंत्रमिद्धतपाः । हरिभद्रसूरिमित्रं, स मानदेवस्ततो जातः ॥३१॥ विबुधप्रभसूरीशस्तदीयपट्टेऽजनिष्ट दृढधर्मः । तत्पट्टेऽजनि सूरिः, श्रीमान् पूज्यो जयानन्दः ॥३२॥ स श्रीरविप्रभाख्यः, सूरीशोऽजायताऽनवद्ययशाः । नड्डुलपुरे प्रतिष्ठां,चकार यो नेमिनाथविभोः ॥३३॥ तत्पट्टाम्भोधिविधुः, सूरियशोदेवसङ्घको जातः । प्रद्युम्नदेवनामा, सूरिस्तत्पट्टधारको जज्ञे ॥३४॥ श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः)
93