________________
श्रीमानार्यसुहस्ति-स्तद्गुरुबन्धुः प्रभावको जातः । नृपसम्प्रतिमुपदिश्य, प्राभावयदार्हतं धर्मम् ॥११॥ जातौ शिष्यप्रवरौ कोटीमितसूरिमन्त्रजप्तारौ । सुस्थित-सुप्रतिबुद्धौ, यदुपज्ञः कौटिकाख्यगणः ॥१२॥ तत्पट्टे सञ्जातो नाम्ना श्रीइन्द्रदिन्नसूरीशः । श्रीदिन्नाभिधसूरि-स्तदीयपट्टेऽभवद् विज्ञः ॥१३॥ तत्पट्टाम्बुधिचन्द्रो, जातिस्मृतिमानमानसामर्थ्यः । श्रीसिंहगिरिर्जातः, सूरीशोऽन_गुणकलितः ॥१४॥ तच्छिष्यो वज्राख्यः, समजनि दशपूर्ववित्प्रथितवृत्तः । अक्षुब्धो नृपसंसदि, समगृह्णाद्यो रजोहरणम् ॥१५॥ प्रादादमरो यस्मै, सन्तुष्टो व्योमगामिनी विद्याम् । यत उद्भूता शाखा, सम्प्रत्यपि राजते वजी ॥१६॥ (युग्मम्) श्रीवज्रसेननामा, तदीयपट्टे रराज सूरीशः । सोपारके विषान्ना-शनान्यवारीज्जनौघं यः ॥१७॥ तत्पट्टे चन्द्राह्वः, सूरिर्जातो हि चन्द्र इव सौम्यः । यस्माद् गणस्य नाम, प्रवर्तितं चन्द्रगच्छ इति ॥१८॥ सामन्तभद्रसूरि-स्तत्पट्टमलञ्चकार विरतिरतिः । वनवासीति चतुर्थं, गणस्य नामाऽभवद् यस्मात् ॥१९॥ श्रीवृद्धदेवसूरिः, समजनि गुणरत्नरोहणस्तस्मात् । प्रातिष्ठिपत् प्रभुं यो, वीरं कोरण्टके ग्रामे ॥२०॥ श्रीप्रद्योतनसूरिः, प्रद्योतनवत्तदीयपट्टेऽभूत् । यो निजगवाऽनुपमया, विश्वं प्राबोधयनिखिलम् ॥२१॥ तत्पट्टोदयशैलं, द्योतितवान् मानदेवसूरीशः । यो निजबुद्धिमहिम्ना, सुरगुरुमपि सञ्जिगाय द्राक् ॥२२॥
विविध हैम रचना समुच्चय
92