________________
राजनगर वास्तव्यो, धन्यो धनजी-सुराभिधो धनिकः । यत्प्रेरितो हि काश्यां,
गतो गुरुः शिष्यजसकलितः ॥५॥
ऍंङ्कार-मन्त्रजापा
दुपगङ्गं भारतीं समाराध्य । तस्याः स हि वरमापत्, कवित्ववाञ्छासुरद्रुसमम् ॥६॥
भट्टाचार्यसमीपे,
चिन्तामण्यादिकं स समधीत्य ।
षड्दर्शनमर्मज्ञो,
विधविधविद्यासु विज्जातः ॥७॥
न्यायविशारद - न्याया
च्चार्योपाधिं हि सदसि धीराणाम् । वादे विजयप्राप्त्या,
प्रीताः प्राज्ञा ददुर्यस्मै ॥ ८ ॥
कः खलु विषयोऽवन्यां,
का वा भाषास्ति यत्र पूज्यानाम् । न प्रावर्तत वाणी,
गद्ये पद्ये च निर्बाधा ॥९॥
प्रोन्मध्य शास्त्रसिन्धु, निजमतिमन्थेन धीरधुर्य्येण । रचिता विविधाः कृतयो, मुकुटायन्तेऽधुना विश्वे ॥१०॥
श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः
89