________________
90
यद्विरचित वैराग्यकल्पलताऽध्यात्मसारमुख्यकृतिम् ।
श्रुत्वा च ज्ञानसारमधियायात् को न वैराग्यम् ? ॥ ११ ॥
दर्भावतीपुरे यश्चिरतरमाराध्य संयमं वर्य्यम् ।
स्वर्यातः ससमाधि
जयताद् बुधसत्तमः स सदा ॥१२॥
इति वाचकावतंसं,
मुनिजनमान्यं यशोविजयगणिनम् । नेयमृतदेवशिष्यः,
स्तुतवान्ननु हेमचन्द्राऽऽह्वः ॥१३॥
पूर्तिः
गतवानिति कः कथयति, जीवति योऽद्यापि सद्यशः कायैः । प्रतिपातः प्रतिचैत्यं,
( गीयन्ते ) श्रूयन्ते यस्य स्तवनानि ॥१॥
यत्-श्रुतवाधिं दृष्ट्वा,
कृतिनो - ऽपि भवन्ति विस्मयग्रस्ताः । कथमेकाकी कृतवान् ?
वद- किमसाध्यं सरस्वत्याः ॥२॥
विविध हैम रचना समुच्चय