________________
Y१८. न्याय विशारद-न्यायाचार्य महामहोपाध्याय श्री यशोविजयगणिवराणां गुणानुवादस्तुतिः
-आ. विजय हेमचन्द्रसूरिः । (आर्यावृत्तम्) भक्त्या तं प्रणमामो, वाचकवर्यं यशोविजयगणिनम् । जिनशासनाम्बरं यो, भासितवान् स्वीयवाग्द्युतिभिः ॥१॥
देशे गूर्जर संज्ञे, ग्रामं 'कन्होडु' नामकं रम्यम् । यो निजजनुषा धीमान्,
पावितवान् शस्यतमचरितः ॥२॥ सोहागदे-र्यदीया, जननी नारायणश्च यस्य पिता । धन्यौ तौ संसारे, यौ सुषुवाते सुतं विरलम् ॥३॥
पण्डितनयविजयाऽऽह्वो, गुणगणनिलयोऽभवद्यदीयगुरुः । यद्वचसा प्रतिबुद्धोऽग्रहणाद् बाल्ये स चारित्रम् ॥४॥
88
विविध हैम रचना समुच्चय