________________
तदीयपट्टोदयशैलसूरः, सूरिः समस्ताऽऽगमसारवेदी । बभूव नाम्ना कृतिनाऽमृतश्च पीयूषपाणिः कृतिकीर्तनीयः ॥४॥ श्रीदेवसूरिर्हि तदीयपट्टं, निजावदाताचरणेन सम्यक् । चकासयत्यार्हततीर्थमिद्धं, प्रभावयन् वत्सलतामहाब्धिः ॥५॥ तच्छिष्यहेमचन्द्रः, शब्दन्यायादिशास्त्रकृतयत्नः । वाचकपदभृदरचयद्, वरमिदमालोचनाशतकम् ॥६॥
यो निजगुरुनिश्रायां, सहित: प्रद्युम्नहीरविजयाभ्याम् । स्वानुजतातमुनिभ्यां मुम्बापुर्यां समृद्धायाम् ॥७॥ श्रीगोडीजी- जैनो-पाश्रयमध्ये हि भूरिविज्ञप्त्या । अकरोत् चातुर्मासीं विधुगुप्तिनभोऽक्षिमित (२०३१) वर्षे ॥८॥
1
?
गुरुवरवच: प्रबुद्धा, भव्याश्चक्रुस्तदाऽतिहर्षेण ।
विविधं व्रतनियमतपः - क्रियादि विपुलार्थसद्व्ययतः ॥ ९ ॥
पूज्याचार्यवरेण्या, मेरुप्रभसूरयस्तदा रेजुः । आदीश्वरजैनधर्म - शालायां परिकरेण युताः ॥१०॥
अष्टादशपापस्थानकालोचनाशतकम्
87