________________
षोडशपापस्थानकालोचना
उक्तं षोडशकं पाप-स्थानकं दुःखकारणम् । नेच्छेत् परपरीवादं, कदाचिन्मनसा सुधीः ॥८३॥ परनिन्दारसो नून-मतिशेते रसान् समान् । कामं यत्पानतो मर्यो, न श्राम्यति न तृप्यति ॥८४॥ तपस्त्यागादिकं याव-ज्जीवं नश्यत्यनुष्ठितम् । यत्करणात्कथं प्राज्ञोऽ-न्यनिन्दां तां समाचरेत् ? ॥८५॥ कर्मजन्यं च जीवानां, तारतम्यं विदन् बुधः । गुणदृष्ट्या जगत् पश्यन्, कथं निन्दापरो भवेत् ॥८६॥ विधाय परनिन्दां यद्, भवेऽत्राऽन्यभवेषु वा ।
उपार्जितं मया पापं, तत्सर्वं मृषयाम्यहम् ॥८७॥ सप्तदशपापस्थानकालोचना
प्रोक्तं मायामृषावाद-पापस्थानकमाविलम् । सप्तदशकमेतज्जै-स्त्यक्तव्यं भूतिमिच्छुभिः ॥८॥ एका मायाऽप्यनर्थाय, भृशं भवति देहिनाम् । मृषावादेन युक्ता चे-त्तदाऽनर्थस्य का कथा ॥८९॥ मायायुक्तो मृषावादी, बकवद् भ्रान्तिकारकः । मुखे मिष्टः स चित्ते तु, विषदिग्धो भवेद् घनम् ॥१०॥ विषेण संस्कृता यद्वत्, प्राणजी कटुतुम्बिका । तद्वन्मायी मृषावादी, विश्वस्तं हन्ति सर्वशः ॥११॥ पापं मायामृषावादै-र्बद्धं यत्पूर्वजन्मसु । मनसा कर्मणा वाचा, त्रिधा तद् विदधे मृषा ॥१२॥
अष्टादशपापस्थानकालोचनाशतकम्
85