________________
चतुर्दशपापस्थानकालोचना
चतुर्दशं परं पाप-स्थानं पैशुन्यमीरितम् । परोक्षे परदोषाणा-मुक्तिः पैशुन्यमुच्यते ॥७३॥ सत्कृतोऽपि खलः कामं, पिशुनत्वं जहाति न । ततस्तु श्वा वरो भक्ष्य-मात्रेण वशमेति यः ७४॥ पयःप्रक्षालितः काको, यथा याति न शुभ्रताम् । नैकशिक्षोक्तिभिस्तद्वद्, दुष्टो न सुजनो भवेत् ॥५॥ निम्बोऽमृतेन संसिक्तो, माधुर्यं जातु प्राप्नुयात् । न खलो वचनैः स्निग्धैः, सौजन्यं मानितो मुहुः ॥७॥ पैशुन्याचरणैर्बद्धं, यत्पापं पूर्वजन्मसु ।
मनसा कर्मणा वाचा, तत्सर्वं विदधे मृषा ॥७७॥ पञ्चदशपापस्थानकालोचना
समाख्यातं पञ्चदशं, रत्यरत्याख्यकं परम् । पापस्थानं यतश्चैते, संयुक्ते तिष्ठतः सदा ॥७८॥ किञ्चिद्धेतू रतिर्यत्रा-ऽरतिस्तत्राऽन्यहेतुका । स्यादेवेति मतं पाप-स्थानमेकमिदं श्रुते ॥७९॥ रतिर्वाऽरतिरित्येषा, केवला चित्तकल्पना । विपर्ययोऽनयोर्लोके, दृश्येत कथमन्यथा ॥८॥ रत्यरत्यनलं प्राप्य, यदाऽयं चित्तपारदः । . नश्येन्नहि तदाऽनन्त-सौख्यस्वर्णाय जायते ॥८१॥ रत्याऽरत्याऽपि यत्पूर्वं, पापं बद्धं मया प्रभो !! मनसा कर्मणा वाचा, तन्मिथ्या विदधे समम् ॥८२॥
84
विविध हैम रचना समुच्चय