SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ द्वादशपापस्थानकालोचना द्वादशं कथितं पाप-स्थानकं कलहाभिधम् । दुःखानां कटु मूलं यत्, ख्यातं सङ्गरकारणम् ॥६३॥ कलहो नैव कर्तव्यः, कर्तव्यश्च निजात्मना । दुरन्तकलहव्याधे- मनमुत्तममौषधम् ॥६४॥ परस्य दुर्वचः श्रुत्वा, प्रत्युत्तरति रोषतः । तन्निशम्य वदेत्सोऽपीत्येवं स्यात्तत्परम्परा ॥ ६५ ॥ " यत्राऽस्ति कलहस्तत्र न श्रीर्वसति कर्हिचित् । श्रामण्यं चाऽपि विफलं साधोः कलहकारिणः ॥६६॥ " ? यदर्जितं मया पापं भवेऽत्राऽन्यभवेषु वा । कलहेन त्रिधा सर्वं, तदद्य विदधे मृषा ॥६७॥ त्रयोदशपापस्थानकालोचना त्रयोदशं समाख्यात-मभ्याख्यानाभिधं त्वधम् । समुल्लसद्विकारं तद्, दूरीकुर्याद् विदूरतः ॥ ६८ ॥ असतः परदोषान् यो, वक्ति मुग्धमतिर्जनः । सेह लाघवमासाद्य, प्रेत्य स्याद् दुःखभाजनम् ॥६९॥ सन्तोऽपि परदोषा न वक्तव्या इति सत्स्थितिः । तेषामप्यसतां वक्तु-दुर्वृत्तस्य तु का कथा ॥७०॥ श्रुत्वा जिनवचश्चित्तं चेद् भवेत् साम्यवासितम् । न परस्याऽसतो दोषां - स्तदा जातु वदेत् सुधीः ॥७१॥ अभ्याख्यानेन यद् बद्धं, दुष्कृतं पूर्वजन्मसु । कुर्वे मृषा त्रिधा नाथ !, तत्त्वदाराधनापरः ॥७२॥ ? अष्टादशपापस्थानकालोचनाशतकम् 83
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy