________________
दशवैकालिकं-टीकात्रिकयुतम्
'संपत्ते'- गाहा, सम्प्राप्ते - शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकालेभिक्षासमये, अनेनासम्प्राप्ते भक्त - पानैषणाप्रतिषेधमाह । अलाभा-ऽऽज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधात्, असम्भ्रान्तः अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः । अमूर्च्छितः-पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति । अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण भक्तपानं यतियोग्यमोदना-ऽऽरनालादि गवेषयेदिति - अन्वेषयेदिति सूत्रार्थः ।।५.१ ।।
८४
से गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुविग्गो, अव्वक्खित्तेण चेयसा ।। ५.१.२ ।।
(ति.) क्व गवेषयेत् ? इत्याह- सोऽसम्भ्रान्तोऽमूर्च्छितो मुनिः ग्रामे वा नगरे वा । गोचराग्रगतः-गौरिव चरणं गोचरः, उच्चनीचगृहेषु भिक्षाटनं तस्याग्रे प्रथमं गतो गन्तुमारब्धः । चरेन्मन्दम् - शनैरद्रुतम् । अनुद्विग्नः - अलाभानिष्टलाभादौ । अव्याक्षिप्तेनशब्दादिष्वगतेन एषणोपयुक्तेन चेतसा ।
(स.) यत्र यथा गवेषयेत् तथाह - से इति - सोऽसम्भ्रान्तोऽमूर्च्छितो मुनिः चरेद् गच्छेत्, परं मन्दं शनैः न द्रुतं कुत्र चरेत् ? ग्रामे वा नगरे वा. उपलक्षणत्वात् कर्बटादौ वा. किंभूतो मुनिः ? गोचराग्रगतः, गौरिव चरणं गोचर उत्तम - मध्यमाSधमकुलेषु राग-द्वेषौ त्यक्त्वा भिक्षाटनम्, अग्रः प्रधान आधाकर्मादिदोषरहितः तद्गतस्तद्वर्ती. किंभूतो मुनिः ? अनुद्विग्नः, नोद्विग्नः प्रशान्तः परीषहादिभ्यो न भयं कुर्वन्नित्यर्थः, केन ? चेतसा चित्तेन, किंभूतेन चेतसा ? अव्याक्षिप्तेन आहारस्यैषणायामुपयुक्तेनोपयोगवतेत्यर्थः ।। ५.२।।
(सु.) यत्र यथा गवेषयेत्, तद् आह - 'से गामेत्यादि, स इत्यसम्भ्रान्तोऽमूर्च्छितो ग्रामे वा नगरे वा, उपलक्षणत्वात् कर्बटादौ वा, गोचराग्रगत इति गोरिव चरणं गोचरः उत्तम-मध्यमा-ऽधमकुलेष्वरक्तद्विष्टस्य भिक्षाटनमग्रः- प्रधानोऽभ्याहृता-ऽऽधाकर्मादिपरित्यागेन, तद्गतः-तद्वर्त्ती मुनिः- भावसाधुः चरेत् गच्छेत् मन्दं शनैःशनैर्न द्रुतमित्यर्थः । अनुद्विग्नः प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा - अन्तःकरणेन एषणोपयुक्तेनेति सूत्रार्थः । । ५.२।।
१. अत्र वत्सकवणिग्जाया दृष्टान्तः । स च अन्यत्र द्रष्टव्यः ।