________________
पञ्चमम् अध्ययनम्
पुरओ जुगमायाए, पेहमाणो महिं चरे ।
वज्जितो बीयहरियाई, पाणे य दगमट्टियं ।।५.१.३।।
(ति.) यथा चरेत् तथाह - पुरतो युगमात्रया कोऽर्थः युगप्रमाणाम् । महीं प्रेक्ष्यमाणश्चरेत् । वर्जयन् बीजहरितानि, प्राणान् - द्वीन्द्रियादीन् । दगमृत्तिकाम्पृथ्वीकायाप्कायौ । चशब्दात्-तेजोवायू च ।।
८५
.
(स.) (अथ) यथा चरेत् तथा ( तथैव) आह - पुर इति - एवंविधः सन् मुनिर्महीं चरेद् यायात्. परं न शेषदिशां विलोकनेनेति शेषः किं कुर्वाणः ? पुरतोऽग्रतो युगमात्रया शरीरप्रमाणया दृष्ट्या - इति शेषः . प्रेक्षमाणः प्रकर्षेण पश्यन् पृथिवीं प्रेक्षमाण एव केवलं न, किन्तु बीजहरितानि परिहरन् पुनः प्राणिनो द्वीन्द्रियादीन् पुनरुदकम् अप्कायं पुनर्मृत्तिकां पृथ्वीकायं चशब्दात् तेजोवायू च परिहरन् इति संयमविराधनायाः परिहारः कथितः ।।५.३ ।।
(सु.) यथा चरेत् तथैवाह - 'पुरओ जुग' इति पुरतो - अग्रतो युगमात्रया- शरीरप्रमाणया शकटोर्द्धिसंस्थितया दृष्ट्येति वाक्यशेषः । प्रेक्षमाणः - प्रकर्षेण पश्यन् महीं-भुवं चरेद्यायात्, न शेषदिगुपयोगेनेति गम्यते । न प्रेक्षमाण एव, अपि तु वर्जयन्-परिहरन् बीजहरितानि, अनेनानेकभेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो - द्वीन्द्रियादींस्तथोदकं-अप्कायं मृत्तिकां च पृथिवीकायं चशब्दात् तेजो-वायुपरिग्रहः ।।५.३ ।।
"
ओवायं विसमं खाणुं, विज्जलं परिवज्जए ।
संकमेण न गच्छिज्जा, विज्जमाणे परक्कमे ।।५.१.४।।
(ति) उक्तः संयमविराधनापरिहारः । अधुनात्म-संयमविराधनापरिहारमाह अवपातम्-गर्तादिरूपम् । विषमम् - निम्नोन्नतम् । स्थाणुम् - कीलकम् । विजलम्विगतजलं कर्दमं परिवर्जयेत् । तथा सङ्क्रमेण - काष्ठ-पाषाणरचितेन पट्यारूपेण जलगर्तादौ तेन न गच्छेत् । संयमा -ऽऽत्मविराधनासम्भवात् । विद्यमाने पराक्रमेअन्यस्मिन् मार्गे, तदभावे सङ्क्रमेणापि कार्यवशाद् यतनया यायात् ।।५.४।।
(स.) अथात्मसंयमयोर्द्वयोर्विराधनापरिहारमाह - ओवायं - इति-साधुरेतत् (सर्वं)
-