________________
८६
दशवैकालिकं-टीकात्रिकयुतम्
परिवर्जयेत् परिहरेत्. एतत् किमित्याहअवपातं गर्तादिरूपं, विषमं नीचोन्नतस्थानं. स्थाणुम् ऊर्ध्वकाष्ठं, विजलं विगतजलं कर्दमं, पुनः साधुः संक्रमेण जलगर्तादिपरिहारार्थं पाषाणकाष्ठरचितेन कृत्वा न गच्छेत्. कथम् ? आत्मसंयमयोर्द्वयोर्विराधनायाः सम्भवात्, अपवादमार्गमाह विद्यमाने पराक्रमेऽन्यमार्गे सतीत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेत् ।।५.४।।
(सु.) उक्तः संयमविराधनापरिहारः । अधुनाऽऽत्मसंयमविराधनापरिहारमाह‘ओवायं’इति, अवपातं गर्त्तादिरूपं, विषमं - निम्नोन्नतं, स्थाणुं-ऊर्ध्वकाष्ठं, विजलंविगतजलं कर्द्दमं परिवर्जयेत् एतत् सर्वं परिहरेत्, तथा सङ्क्रमेण-जलगर्त्तापरिहाराय पाषाण-काष्ठरचितेन न गच्छेत्, आत्म-संयमविराधनासम्भवात् । अपवादमाह - विद्यमाने पराक्रमे - अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ।।५.५।।
पवडंते व से तत्थ, पक्खलंते व संजए |
हिंसेज्ज पाणभूयाइं, तसे अदुव थावरे ।।५.१.५ ।।
(ति) अवपातादौ दोषमाह - प्रपतन् वा स तत्र गर्तादौ । प्रस्खलन् वा संयतः हिंस्यात् प्राणभूतान् त्रसानथवा स्थावरान् ।।५.५।।
(स.) अथावपातादौ दोषमाह - पवडं - इति एवं कुर्वन् साधुः प्राणिभूतानि, हिंस्यात्, प्राणिनो द्वीन्द्रियादीन्, भूतान्येकेन्द्रियादीनिति एतदेवाह - त्रसानथवा स्थावरान् प्रपातेनात्मानं चेत्येवमुभय - विराधना ज्ञातव्या ।।५.५।।
(सु.) अवपातादौ दोषमाह - 'पवडंते व' इति प्रपतन् वाऽसौ तत्र अवपातादौ प्रस्खलन् वा संयतः-साधुः हिंस्याद् व्यापादयेत्, प्राणिभूतानि प्राणिनो - द्वीन्द्रियादयः, भूतानि-एकेन्द्रियाः, एतदेवाह - त्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेत ।।५.५।।
तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए ।
सइ अन्त्रेण मग्गेण, जयमेव परक्कमे ।। ५.१.६ ।।