________________
८७
पञ्चमम् अध्ययनम्
(ति.) यतश्चैवम् ?-तस्मात् तेन-अवपातादिना | न गच्छेत् । संयतः-सुसमाहितः। सत्यन्यस्मिन्-समे मार्गे, सप्तमीस्थाने तृतीया । असति च समे मार्गे तेनैवावपातादिना विराधनाद्वयं परिहरन् यतमेव-यतनयैव पराक्रमेत् ।।५.६ ।।
(स.) यतश्चैवं, ततः किं कार्यं इति ? - आह-तम्हा-इति-संयतः साधुः तस्मात् कारणात् नावपातादिमार्गेण न गच्छेत्. किंभूतः संयतः ? सुसमाहितो भगवत आज्ञावर्ती, क्व सति, अन्यस्मिन् मार्गे सति. अत्र सूत्रत्वात् सप्तम्यर्थे तृतीया विभक्तिः. अपवादमाह'असत्यन्यस्मिन् मार्गे तु तेनैवावपातादिना यतमेव यत्नेनात्मसंयमयोर्विराधनायाः परिहारेण यायात्-इति. ।।५.६।।
(सु.) यतश्चैवं 'तम्हा' इति, तस्मात् तेन-अवपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः। सत्यन्येनेति, अन्यस्मिन् समादौ, मार्गेणेति मार्गे छान्दसत्वात् सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन् मार्गे तेनैवावपातादिना यतमेव पराक्रमेत्, यतमिति क्रियाविशेषणं, यतमात्मसंयमविराधनापरिहारेण यायादिति ।।५.६ ।।
इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं, संजओ तं नक्कमे ||५.१.७।।
(ति.) अत्रैव विशेषतः पृथ्वीकाययतनामाह-अङ्गाराणामिमम्-आङ्गारम् । एवं क्षारं, राशिम् । तुषराशिम् । गोमयम्-गोमयराशिं, राशिशब्दोऽत्रापि सम्बध्यते । सरजस्काभ्याम्-सचित्तपृथ्वीकायरजो-गुण्डिताभ्यां पादाभ्यां संयतस्तं राशिं नाक्रामेत्। मा भूत् पृथ्वीरजोविराधनेति ।।५.७ ।। - (स.) अथात्रैव विशेषतः पृथिवीकाययतनामाह-इङ्गालं-इति-संयतः साधुः अङ्गाराणामयमाङ्गारः. आङ्गारं राशिं सरजस्काभ्यां सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां नाक्रमेत्, यतस्तस्याक्रमणे सचित्तपृथिवीरजोविराधना भवेत्. एवं राशिशब्दस्य प्रत्येकं सम्बन्धात्-क्षारराशिं तुषराशिं गोमयराशिं च सरजस्कपादाभ्यां नाक्रमेत्. ।।५.७।।
(सु.) अत्र विशेषतः पृथ्वीकाययतनामाह-'इंगालं इति आङ्गारमित्यङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिं, एवं क्षारराशिं तुषराशिं च गोमयराशिं च, राशिशब्दः १. असति तस्मिन्निति क. पु. चूर्णी-अहवा...असति जयमेव...। २. 'नइक्कमे' इत्यन्यत्र मुद्रितः पाठः