________________
८८
दशवैकालिकं-टीकात्रिकयुतम् प्रत्येकमभिसम्बध्यते । सरजस्काभ्यां पद्भ्यां-सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां संयतः साधुस्तमनन्तरोदितं राशिं नातिक्रमेत्, मा भूत् पृथ्वीरजोविराधनेति ।।५.७।।
न चरिज्ज वासे वासन्ते, महियाए वि पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ।।५.१.८।।
(ति.) अत्रैवाप्कायविराधनामाह-न चेरद वर्षे वर्षति-बहिर्गतस्य वर्षणे तु प्रच्छन्ने तिष्ठेत् । महिकायाम्-धूमर्याम् । महावाते वा वाति सति । तिर्यक सम्पतन्तीति तिर्यक्सम्पाताः, तत एव सम्पातिमाः पतङ्गादयः, तेषु वा सत्सु न चरेत् ।।५.८ ।।
(स.) अथ अप्कायादि यतनामाह-नेति-साधुर्वर्षे वर्षति न चरेत्, पूर्वं भिक्षार्थं प्रविष्टोऽपि वर्षे वर्षति प्रच्छन्नस्थाने तिष्ठेत्, तथा मिहिकायां वा पतन्त्यां न चरेत्, सा च मिहिका प्रायो गर्भमासेषु भवति, तथा महावाते वाति सति न चरेत्. अन्यथा महावातेन समुत्खातस्य सचित्तरजसो विराधना भवेत्. तथा तिर्यक् सम्पतन्तीति तिर्यक्सम्पाताः पतङ्गादयः, तेषु सत्सु वा न चरेत्, उक्तैवं प्रथमव्रतयतना - ||५.८।।
(सु.) अत्रैवाप्कायादियतनामाह-'न चरेज्ज'इति न चरेद् वर्षे वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत। तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात्, तिर्यक् संपतन्तीति तिर्यक्संपाता:-पतङ्गादयः, तेषु वा सत्सु, क्वचिदप्यशनिरूपेण न चरेदिति ।।५.८ ।।
न चरिज्ज वेससामंते, बंभचेरवसाणए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिया ।।५.१.९।।
(ति.) उक्ता प्रथमव्रतयतना साम्प्रतं चतुर्थव्रतयतनोच्यते-न चेरद् वेश्यासामन्तेगणिकागृहसमीपे । ब्रह्मचर्यं अवसानयतीति इति, 'इनि पुणि वष्टि भागुरिरल्लोपे ब्रह्मचर्यवसानकं तस्मिन् ब्रह्मचर्यवसानके ब्रह्मचर्यपर्यन्त-कारके । तत्र गतस्य ब्रह्मचारिणो दान्तस्य भवेद् विश्रोतसिका-वेश्यादर्शन-स्मरणापध्यानस्वरूपकचवरावस्थानात् ज्ञानश्रद्धाजलापगमात् । विरूपं श्रोत इव प्रणालमिव श्रान्तोऽन्तकरणं तदेव निरुक्त्या
१. वष्टि भागुरिरल्लोप-मवाप्योरुपसर्गयोः । आपं चैव हलन्तानां, यथा वाचा निशा दिशा ।। (सिद्धान्तकौमुद्यामव्ययप्रकरणे)