________________
पञ्चमम् अध्ययनम्
विश्रोतसिका सपङ्कप्रणालिका सकल्मषचित्तता इत्यर्थः ।।५.९।।
(स.) सांप्रतं चतुर्थव्रतस्य यतनोच्यते - न - इति - एवंविधः साधुः वेश्यासामन्ते गणिकागृहसमीपे न चरेत् न गच्छेत्, किंविशिष्टे वेश्यासामन्ते ? ब्रह्मचर्यवशानयने, ब्रह्मचर्यं मैथुनविरतिरूपं वशमानयति आयत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, को दोषस्तत्र गमनत ? इत्यत आह ब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनोइन्द्रियदमाभ्यां भवेत् तत्र वेश्यासामन्ते विस्रोतसिका. कथम् ? तद्रूपदर्शनस्मरणेनाशुभध्यानकचवरनिरोधतः ज्ञानश्रद्धा - जलोज्झनेन संयमशस्यशोषफला चित्तविक्रिया भवति ।। ५.९ ।।
८९
(सु.) उक्ता प्रथमव्रतयतना । सांप्रतं चतुर्थव्रतयतनोच्यते- 'न चरिज्ज 'इत्ति 'न चरेद् वेश्यासामन्ते' न गच्छेद् गणिकागृहसमीपे, किंविशिष्ट इत्याह- ब्रह्मचर्यवशानयने ( नये) ब्रह्मचर्यं मैथुनविरतिरूपं वशमानयति - आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह - ब्रह्मचारिणः साधोः, 'दान्तस्य' इन्द्रिय-नोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते 'विश्रोतसिका' तद्रूपसंदर्शन - स्मरणेनापध्यानकचवरनिरोधतो ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषणफला चित्तविक्रियेति ।।५.९ ।।
अणायणे चरंतस्स, संसग्गीइ अभिक्खणं ।
हुज्ज वयाणं पीडा, सामन्नंमि य संसओ ।।५.१.१०।।
(ति.) अत्रैव विशेषमाह - अनायतने अस्थाने, वेश्यासामन्तादौ । चरतः संसर्गी, नदादेराकृति-गणत्वात् ई' प्रत्यये, तया । अभीक्ष्णं भवेद् व्रतानां पीडा ।
कथं वेश्यागतभावस्य चतुर्थव्रतं पीड्यते ?
-
अनुपयोगेनैषणाया अरक्षणेऽहिंसा, केनाप्यपचित्तताप्रश्नेऽपलपनात् सत्यव्रतम्, अननुज्ञातवेश्यावलोकनाददत्तादानं, तन्ममत्वकरणे परिग्रहव्रतम्, एवं सर्वव्रतपीडा, द्रव्यश्रामण्येऽपि संशयः कदाचिदुन्निःक्रमणात् ।।५.१० ।।
(स.) अत्र [नवम्यां गाथायां ] एकवारं वेश्यासामन्तसङ्गतो दोष उक्तः, साम्प्रत मिहान्यत्र च वारंवारगमने दोषमाह - अणायण इति साधोरनायतनेऽस्थाने वेश्यासामन्तादौ चरतो गच्छतः संसर्गेण सम्बन्धेनाभीक्ष्णं पुनः पुनर्भवेद् व्रतानां प्राणातिपातविरत्यादीनां