________________
९०
दशवैकालिकं-टीकात्रिकयुतम् पीडा भावविराधना. कथं ? यतस्तदानीं स साधुस्तदाक्षिप्तचित्तो भवति. पुनः श्रामण्ये श्रमणभावे-द्रव्यतो रजोहरणादिधारणरूपे भूयो भावतो व्रतप्रधानहेतौ संशयः. कदाचिदुन्निष्क्रामत्येव. ।।५.१०।।
(सु.) एष सकृच्चरणदोषो वेश्यासामन्तसङ्गत उक्तः, साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह-'अणायणे इति अनायतने-अस्थाने वेश्यासामन्तादौ चरतो गच्छतः, संसर्गेण-सम्बन्धेनाभीक्ष्णं-पुनः पुनः, किम् ? इत्याह-भवेद् व्रतानां-प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना भवति, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः । तथा च वृद्धसंप्रदायः
"वेसादिगयभावस्स मेहुणं पीडिज्जइ, अणुवओगेण एसणा-ऽरक्खणे(करणे) य हिंसा, पडुप्पायणे अन्नपुच्छणअवलवणा सच्चवयणं अणनुन्नायवेसाइ-दंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसओ उन्निक्खमणेणत्ति" सूत्रार्थः ।।५.१०।।
तम्हा एयं वियाणित्ता, दोसं दुग्गइवढ्ढणं । वज्जए वेससामंतं, मुणी एगंतमस्सिए ।।५.१.११।।
(ति.) एतन्निगमयन्नाह-[तम्हा...इति] सुगमः । नवरम् एगन्तमस्सिए-एकान्तं मोक्षमाश्रितः ||
(स.) अथ निगमयन्नाह-तम्हा-इति यस्मादेवं तस्मान्मुनिः वेश्यासामन्तं वेश्यागृहसमीपं वर्जयेत् । किं कृत्वा ? दोषं पूर्वोक्तं विज्ञाय. किं भूतं दोषं ? दुर्गतेर्वर्धनं. किंभूतो मुनिः ? एकान्तं मोक्षमाश्रितः. शिष्यः प्राह-ननु प्रथमव्रतविराधनानन्तरं चतुर्थव्रतस्य विराधनायाः कथमुपन्यासः | उच्यते-अन्यव्रतविराधनाहेतुत्वेन चतुर्थव्रतस्य विराधनायाः प्राधान्यख्यापनार्थं. तच्च लेशतो दर्शितमेव. ।।५.११।।
(सु.) निगमयन्नाह-तम्हा'इति, यस्मादेवं तस्मादेतद् विज्ञाय दोषमनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्, वेश्यासामन्तं, मुनिरेकान्तं मोक्षमार्गमाश्रित इति ।।५.११।।