________________
पञ्चमम् अध्ययनम्
साणं सूइयं गाविं, दित्तं गोणं हयं गयं । संडिब्भं कलहं जुद्धं, दूरओ परिवज्जए ||५.१.१२।।
(ति.) अत्रैव विधिविशेषमाह-श्वानम् । सूतिकाम्-नवप्रसूतां गवीम् । दृप्तं गां, हयं, गजम् । सडिम्भम् [सण्डिम्भम्]-बालक्रीडास्थानम् । कलहम्-प्रतीतम् । युद्धम्शस्त्रादिभिः । एतानि दूरतो वर्जयेत्। आत्म-संयमविराधनासम्भवात् । युद्धं हि पश्यतां कदाचित् प्रहारलगनादात्मविराधना, तत्प्रशंसाया संयमविराधना । श्वानादिभ्यश्च संयमात्मविराधना स्वयमभ्यूह्या ।।५.१२ ।।
(स.) अथ तत्रैव विशेषमाह-साणं-इति साधुरेतानि दूरतो दूरेण परिवर्जयेत्, कानि तानीत्यत आह-श्वानं प्रसिद्धं, सूतां गां नवप्रसूतां धेनु, तथा दृप्तं दर्पितं गोणं बलीवर्द, दृप्तशब्दः सर्वत्र सम्बध्यते, ततो दृप्तं हयमश्वं, पुनर्दृप्तं गजं हस्तिनं, तथा सण्डिब्भं बालक्रीडास्थानं. कलहं वाक्प्रतिबद्धं, युद्धं खड्गादिजातं, कथमेतानि वर्जयेदित्यत आह श्व-सूतगोप्रभृतिभ्य आत्मविराधना स्यात्, बालक्रीडास्थाने वन्दनागतपतन-भण्डन-लुठनादिना संयमविराधना स्यात्, सर्वत्रात्मपात्रभेदादिना उभयविराधनापि स्यात्. ।।५.१२ ।।
(सु.) आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यतेप्राधान्यख्यापनार्थं, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यं, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाह-'साणं'इति श्वानं लोकप्रतीतं, सूतां गां-अभिनवप्रसूतां, दृप्त-दर्पितं किमित्याह-गोणं, हयं गजं, गौः-बलीवर्दः, हयः-अश्वः, गजो-हस्ती, तथा 'संडिम्भं' बालक्रीडास्थानं, कलह-सवाक्प्रतिबद्ध, युद्धं-खड्गादिभिः, एतद् दूरतो-दूरेण परिवर्जयेत्, आत्म-संयमविराधनासम्भवात्, श्व-सूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमन-पतन-भण्डन-प्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः ।।५.१२ ।।
अणुन्नए नावणए, अप्पहिढे अणाउले । इंदियाणि जहाभाग, दमइन्ना मुणी चरे ।।५.१.१३।। (ति.) अत्रैव विशेषमाह-अनुन्नतः-द्रव्यतो भावतश्च, द्रव्यतो नोर्ध्वमुखः, भावतो