________________
दशवैकालिकं-टीकात्रिकयुतम्
९२
न जात्याद्यभिमानी । नावनतः - द्रव्य भावाभ्यामेव द्रव्यानवनतोऽनीचकायः, भावानवनतोऽलाभादिनाऽदीनः । अप्रहृष्टः- लाभादौ अहर्षः । अनाकुल:- क्रोधादिरहितः । इन्द्रियाणि यथाभावम्-यथाविषयम्। दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिश्चरेत् । विपर्यये दोषः - द्रव्योन्नतो लोकहास्यः, भावोन्नतो जात्याद्यावेशादीर्यां न रक्षति । द्रव्यावनतो बक इति सम्भाव्यते, भावावनतः तुच्छसत्त्व इति । प्रहृष्टो योषिदर्शनाद् रक्त इति । आकुलो लाभार्थी । अदान्तः प्रव्रज्यानर्ह इति ।।५.१३।।
"
(स.) अथ अत्रैव विधिमाह-अणुन्नए'-इति-साधुरेवं चरेद् गच्छेत्. किंभूतो मुनिः ? अनुन्नतः, न उन्नतः अनुन्नतः, द्रव्यतो नाकाशदर्शी, भावतस्तु न जात्यादीनामभिमानकर्त्ता, पुनः किंभूतो मुनिः ? नावनतः, न अवनतः द्रव्यतो न नीचकायः. भावतस्तु नालब्ध्यादिना दीनः पुनः किंभूतो मुनिः ? अप्रहृष्टो लाभादौ सति न हर्षवान् पुनः किंभूतो मुनिः ? अनाकुलः न आकुलः क्रोधादिना रहितः, किं कृत्वा मुनिश्चरेदित्यत आह- इन्द्रियाणि स्पर्शनादीनि, यथाभागं यथाविषयमिष्टेषु स्पर्शादिषु प्रवर्तमानान्यनिष्टेभ्यः स्पर्शादिभ्यो निवर्तमानानि, दमयित्वा रागद्वेषरहितश्चरेदित्यर्थः विपरीते नु(तु) प्रभूता दोषा प्रकटीभवेयुः ।।५.१३।।
1
(सु.) अत्रैव विधिमाह - 'अणुन्नए' इति अनुन्नतो- द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी, भावतो न जात्याद्यभिमानवान्, नावनतो- द्रव्यभावाभ्यामेव द्रव्यानवनतोऽनीचकायः भावानवनतो ऽलब्ध्यादिनाऽदीनः, अप्रहृष्टः - अहसन्, अनाकुलः-क्रोधादिरहितः, इन्द्रियाणि-स्पर्शनादीनि यथा भागं - यथाविषयं, दमयित्वा इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनिः-साधुश्चरेत् - गच्छेत्, विपर्यये तु-प्रभूतदोषप्रसङ्गात्, तथाहिद्रव्योन्नतो लोकहास्यो, भावोन्नत ईर्यां न रक्षति, द्रव्यावनतो बक इति सम्भाव्यते, भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिदर्शनाद् रक्तः इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यां नार्हति ।।५.१३ ।।
दवदवस्स न' गच्छिज्जा, भासमाणो य गोयरे ।
हसंतो नाभिगच्छेज्जा, कुलं उच्चावयं सया ।।५.१.१४।।
१. ण ९.१०.१२ ।। २. ०च्छि. ६-१२ ।।