________________
पञ्चमम् अध्ययनम्
(ति.) किञ्च [दवदवस्स...] स्पष्टम् । नवरम् दवदवस्स-द्रुतं त्वरितमित्यर्थः । दोषश्च उभयविराधना ।।५.१४ ।।
(स.) पुनराह-दवदवस्स-इति-द्रुतं द्रुतं मुनिर्न गच्छेत्, तु पुनर्भाषमाणो गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्. कुलमुच्चावचं सदा उच्चं द्रव्यतो धवलगृहादि. भावतो जात्यादियुक्तम्, एवमवचं द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनम्, उभयविराधना-लोकोपघातादयो दोषाः स्युः. ।।५.१४ ।।
(स.) 'दवदवस्स'इति द्रुतं द्रुतं-त्वरितमित्यर्थः, न गच्छेद भाषमाणो वा गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्य-भावभेदाद् द्विविधंद्रव्योच्चं धवलगृहवासि, भावोच्चं जात्यादियुक्तं, एवमवचमपि द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनमिति । दोषा उभयविराधनालोकोपघातादय इति ।।५.१४।।
आलोयं थिग्गलं दारं, संधिं दगभवणाणि य । चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ।।५.१.१५।।
(ति.) पुनरत्रैव विधिमाह-आलोकम-गवाक्षादि । थिग्गलम्-चितद्वारादि । संधिम्चितखात्रादि | उदकभुवनानि च चरन् भिक्षार्थं न विनिध्यायेत्-न विशेषेण पश्येत् । शङ्कास्थानमेतदवलोकादि । अतो विवर्जयेत् । तत्, तद्दर्शिनि नष्टवस्तुनः अनेन गृहीतमिति शङ्का स्यात् ।।५.१५।।
(स.) पुनरत्रैव विधिमाह-आलोअं-इति-मुनिः चरन् भिक्षार्थं गच्छन्नेतानि न विनिध्यायेत्. विशेषेण न पश्येत्, कान्येतानि ? इत्यत आह-आलोकं नियूहकादिरूपं, थिग्गलं भित्ति-द्वारादि, सन्धिः क्षात्रं, दकभवनानि पानीयगृहाणि, एतदालोकादीनामवलोकनं शङ्कास्थानमतो विवर्जयेत्, कथं ? नष्टादौ तत्र शङ्का उपजायते. ।।५.१५।।
(सु.) अत्रैव विधिमाह-'आलोयं थिग्गलं'इति, आ(अव)लोकं-निर्यहकादिरूपं, थिग्गलं चितं द्वारादि, संधिं चितं क्षत्रं, उदकभवनानि-पानीयगृहाणि चरन् भिक्षार्थं, न विनिज्झाए'इति-विनिध्यायेत्-विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि, अतो विवर्जयेत्, तथा च नष्टादौ तत्राऽऽशङ्कोपजायत इति ।।५.१५।।