________________
९४
दशवैकालिकं- टीकात्रिकयुतम्
रन्नो गिहिंवईणं च, रहसा ऽऽरक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ।।५.१.१६।।
(ति.) अपि च-राज्ञो गृहपतीनाम् श्रेष्ठ्यादीनाम् रहःस्थानम्, आरक्षकाणां च सङ्क्लेशकरं स्थानं दूरतः परिवर्जयेत् । रहःस्थानावलोकने हि अस्मदालोचादिजिज्ञासवो मा' इति तेषां सङ्क्लेशः स्यात्, साधूनां वा तैर्निः सारणादिसङ्क्लेशः क्रियेत ।।५.१६ ।।
(स.) रन्नो इति पुनः किंभूतो मुनिः ? राज्ञश्चक्रवर्त्यादेः, गृहपतीनां श्रेष्ठिप्रभृतीनां च रहस्यस्थानादि वर्जयेत्. आरक्षकाणां च दण्डनायकानां रहःस्थानं गुह्यापवरकमन्तर्गृहादि, सङ्क्लेशकरं असदिच्छाप्रवृत्त्या मन्त्रभेदैर्वा कर्षणादिना दूरतः परिवर्जयेत् ।।५.१६ ।।
(सु.) किंच-"रन्नो गिह...' इत्यादि राज्ञः- चक्रवत्र्त्यादेः, गृहपतीनां-श्रेष्ठिप्रभृतीनां, रहस्यस्थानानि वर्जयेदिति योगः । आरक्षकाणां च दण्डनायकादीनां, रहःस्थानंगुह्या-ऽपवरक-मन्त्रगृहादि सङ्क्लेशकरं - असदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति दूरतः परिवर्जयेदिति ।।५.१६ ।।
पडिकुट्ठकुलं न पविसे, मामगं परिज्जए ।
अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं ।।५.१.१७।।
(ति.) किञ्च-प्रतिकुष्टम् - लोकनिषिद्धं मलिनादिकुलम् न प्रविशेत्-शासनलघुत्वप्रसङ्गात्। मामकम्-यो वक्ति मा मे गृहं कश्चिदागच्छतु । तद्गृहं वर्जयेत् । 'अचियत्तकुलं’-अप्रीतिकुलम् । यत्र साधुप्रवेशे गृहिणामप्रीतिर्भवति तत्र न प्रविशेत् । यत्र तु प्रीतिः स्यात्, तत्र 'चियत्तकुले' - प्रीतिमति । प्रविशेत् । तेषामनुग्रहसद्भावात् ।।५.१७।।
1
(स.) पडि- इति- किञ्च साधुरेवंविधं कुलं न प्रविशेत्. किंभूतं कुलं ? प्रतिक्रुष्टं लोकनिषिद्धं मलिनादि, द्विविधमपि निषिद्धं - इत्वरं सूतकयुक्तं यावत्कथिकं च निषिद्धमभोज्यं. कुतो न प्रविशेत् ? शासनलघुत्वप्रसङ्गात्, पुनर्मामकमत्राहं गृहपतिर्मा कश्चिन्मम गृहमागच्छतु, एतद् गृहं वर्जयेत्, कुतः ? भण्डनादिप्रसङ्गात् पुनः १. ०ह. ६.७.९-१२ ।। २. ०मीति ४.१०.११ ।। ३. ०र्निर्वासनादि. १० ।। 1 इत्वरनिषिद्धं पाठा. ।