________________
।। पञ्चमं अध्ययनं पिण्डैषणा ।।
।। पिण्डैषणाध्ययने प्रथमोद्देशकः ।।
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ।। ५.१.१ ।।
(ति.) अनन्तराध्ययने साध्वाचारः कथितः, स च पिण्डादिशुद्ध्या शुद्धो भवति इत्यनेन सम्बन्धेनायातं "पिण्डैषणाध्ययनम्" अधुना व्याख्यायते । तच्चेदम् - सम्प्राप्ते भिक्षाकाले । असम्भ्रान्तः-अनाकुलः । अमूर्च्छितः- अगृद्धः । अनेन - वक्ष्यमाणेन । क्रमयोगेन परिपाटीव्यापारेण । भक्तपानं गवेषयेत् ।
(स.) अथ पञ्चमाध्ययनं प्रारभ्यते - संपत्ते इति - इह पूर्वाध्ययने साधोराचारः कथितः, स चाचारः कायस्य सति स्वास्थ्ये भवति, स्वाथ्यं चाहारं विना न भवति. स चाहारः शुद्धो ग्राह्यः, ततोऽनेन सम्बन्धेनायातमिदमध्ययनमाहारशुद्धिप्रतिपादकं व्याख्यातं, तच्चेदम्-[संपत्ते.....] एवंविधः साधुर्भक्तपानं गवेषयेत्, यतीनां योग्यमोदना-ऽऽरनालमन्वेषयेदित्युक्तिः, क्व सति ? भिक्षाकाले भिक्षासमये, संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते सति, किंभूतः साधुः ? असम्भ्रान्तोऽनाकुलः यथाविधि उपयोगादि कार्यं कृत्वा, पुनः किंभूतः साधुः ? अमूर्च्छितो न शब्दादिविषये पिण्डे वा मूर्च्छितः पुनः किंभूतः साधुः ? अगृद्धो न पिण्डादावासक्तः, अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण. ।।५.१।।
(सु.) अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने साधोराचारः षड्जीवनिकायगोचरः प्रायः इत्येतदुक्तम् । इह तु धर्म्मकाये स्वस्थे सति असौ सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च
"से संजए समक्खाए, निरवज्जाहारि जे विऊ । धम्मकायट्ठिए सम्मं, सुहजोगाण साहए ||१।।" इत्यनेनाभिसम्बन्धेनाऽऽयातमिदमध्ययनमिति, तच्चेदं