________________
दशवैकालिकं-टीकात्रिकयुतम् सुहसायगस्य समणस्स, सायाउलस्स निगामसाइस्स । उच्छोलणा पहोइस्स, दुलहा सोगइ तारिसगस्स ।।४.२६ ।।
(ति.) संप्रति यस्य धर्मफलं दुर्लभं, तमाह-सुखास्वादकस्य-प्राप्तशब्दरसादिरसभोक्तुः । श्रमणस्य-द्रव्यसाधोः । साताकुलस्य-भाविसुखार्थं व्याक्षिप्तचित्तस्य । निकामशायिनः-सूत्रार्थवाचनावेलायामपि शयानस्य। उच्छोलनाप्रधाविनः-उच्छोलनया उदकायतनया प्रकर्षेण धावति पादादिशुद्धिं करोति यः स तथा तस्य । दुर्लभा सुगतिः-सिद्धिपर्यवसाना । तादृशकस्य-भगवदाज्ञालोपिनः ।।२६ ।।
(स.) अथ धर्मफलस्य दुर्लभत्वमाह-सुह-इति-सुखास्वादकस्य प्राप्तेषु शब्दरसादिभोगेषु सुखोपभोगकर्तुः. एवंविधस्य श्रमणस्य द्रव्यतः प्रव्रजितस्य, पुनः किंभूतस्य श्रमणस्य ? शाताऽऽकुलस्य भाविसुखार्थं व्याक्षिप्तचित्तस्य, पुनः किंभूतस्य श्रमणस्य ? निकामशायिनः, निकाममत्यर्थं सूत्रार्थवेलामतिक्रम्य शयानस्य, पुनः किम्भूतस्य श्रमणस्य ? उत्सीलनया उदकस्या-यतनया प्रकर्षेण धावति पादादिशुद्धिं करोति यः स तथा तस्य, किं स्यादित्याह-दुर्लभा दुष्प्रापा सुगतिः सिद्धिः, तादृशस्य भगवत आज्ञालोपकारिणः. ।।२६ ।।
(सु.) साम्प्रतमिदं धर्मफलं यस्य दुर्लभं, तमभिधित्सुराह-'सुहसायगस्स'इत्ति सुखास्वादकस्य-अभिष्वङ्गेण प्राप्तसुखोपभोक्तुः, श्रमणस्य-द्रव्यप्रव्रजितस्य साताकुलस्य भाविसुखार्थं व्याक्षिप्तचित्तस्य, निकामशायिनः-सूत्रार्थवेलामप्युल्लंघ्य शयानस्य, उच्छोलनाप्रधाविनः उच्छोलनयोदकायतनया प्रकर्षेण धावति पादादिशुद्धिं करोति यः स तथाविधस्तस्य, किमित्याह-दुर्लभा-दुष्प्रापा सुगतिः-सिद्धिपदपर्यवसाना तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ।।२६ ।।
तवोगुणपहाणस्स, उज्जुमइ खंतिसंजमरयस्स | परीसहे जिणंतस्स, सुलहा सोगइ तारिसगस्स ||४.२७।।
(ति.) अथ यस्य धर्मफलं सुलभं, तमाह-तपोगुणप्रधानस्य ऋजुमतेः-सरलाशयस्य । क्षान्ति-संयमरतस्य-क्षमाप्रधान-संयमाऽऽसेविनः | परीषहान्-क्षुदादीन् जयतः | सुलभा । सुगतिः-सिद्धिरूपा । तादृशकस्य-भगवदाज्ञाकारिणः ।।२७।।