________________
चतुर्थम् अध्ययनम्
(स.) अथ धर्मफलस्य सुलभतामाह - तवोगुण इति तादृशस्य भगवत आज्ञाकारिणः सुगतिः सिद्धिः सुलभा सुप्रापा भवति, किंविधस्य तादृशस्य ? तपोगुणप्रधानस्य षष्ठाष्टमादितपोगुणवतः पुनः किंभूतस्य तादृशस्य ? ऋजुमतेर्मोक्षमार्गप्रवृत्तबुद्धेः, पुनः किंभूतस्य ? क्षान्तिसंयमरतस्य क्षान्तिप्रधानस्य संयमस्य सेविन इत्यर्थः, किंभूतस्य ? परीषहान् क्षुत् - पिपासादीन् जयतः पराभवतः ।। २७ ।।
पुनः
(सु.) इदानीं धर्म्मफलं यस्य सुलभं तमाह- 'तवोगुण' इत्यादि, तपोगुणप्रधानस्यषष्ठाष्टमादितपोगुण(धन)वतः, ऋजुमतेर्मार्गप्रवृत्तबुद्धेः, क्षान्ति-संयमरतस्य-क्षान्तिप्रधानसंयमासेविन इत्यर्थः। परीषहान् क्षुत्-पिपासादीन् जयतः - अभिभवतः सुलभा सुगतिःउक्तलक्षणा तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः ।। २७।।
पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई ।
जेसिं पिओ तवो संजमो य, खंती य बंभचेरं च ।।४.२८ ।।
८१
(ति.) ये चादौ सुखशीलाः, पश्चात् कुतोऽपि वैराग्याद् व्रतोद्यता भवन्ति, तेषां किमित्याह-पश्चादपि ते प्रयाताः - मोक्षं प्रति प्रयातुमारब्धः ( ब्धा), आर्द्रकुमारनन्दिषेणादिवत् । क्षिप्रं गच्छन्तीत्यादि सुगमम् ।।२८।।
(स.) महार्था षड्जीवनिकायिका इति, विधिना उपसंहारमाह - पच्छा - इति - पश्चादपि वृद्धावस्थायामपि ते प्रयाताः प्रकर्षेण याता अविराधितसंयमा अपि सन्मार्गं प्रपन्ना द्रुतं गच्छन्त्यमरभवनानि देवविमानानि, ते के इत्याह-येषां प्रियं तपः संयमः क्षान्तिः ब्रह्मचर्यं च ।।२८ ।।
(सु) नैषा गाथा विवृता- । ।२८ ।।
'इच्चेयं छज्जीवणियं, सम्मदिट्ठी सया जए ।
दुलहं लभित्तु सामन्नं, कम्मुणा न विराहिज्जासि - त्ति बेमि ।।४.२९।।
(ति.) षड्जीवनिकायिकोंपसंहारमाह- इत्येतां षड्जीवनिकायिकां सम्यग्दृष्टिजीवः । सदा यतः-यत्नपरः । दुर्लभं लब्ध्वा श्रामण्यम् कर्मणा मनोवाक्कायक्रियया प्रमादेन । न विराधयेत्-न खण्डयेत् । अप्रमत्तस्तु कथञ्चिद् विराधनायामप्यविराधक एव । १. अत्र 'विराधितसंयमा अपि इति पाठः साधीयानिति भाति, इति टिप्पणं चिन्त्यम्, संयमकालस्याल्पतया वृद्धानां तत्परपाकाभावेन सिद्धभावानवाप्तावपि स्वर्गप्राप्तौ तथाविधस्यापि तस्य क्षमत्वमिति वृद्धैरपि पर्यन्ते संयमविराधना न कार्येति सूत्रतात्पर्यात् । २. ए. १.३.४ ।।