________________
चतुर्थम् अध्ययनम्
जया - इति-यदा लोकमलोकं च जिनो जानाति केवली, तदा उचितसमयेन योगान् निरुद्ध्य मनोयोगादीन् शैलेशीं प्रतिपद्यते भवोपग्राहिकर्मांशक्षयार्थम् ।।२३।। जया-इति-यदा योगान्निरुद्ध्य शैलेशीं प्रतिपद्यते, तदा कर्म क्षपयित्वा सिद्धिं लोकान्तक्षेत्ररूपां गच्छति, किंभूतः ? नीरजाः कर्मरजोमुक्तः. ।।२४।।
७९
(सु.) 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं, तदा सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं दर्शनं चाशेषदृश्यविषयम् अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ।।२१।।
'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्ज्वात्मकं अलोकं चानन्तं जिनो जानाति केवली, लोकालोकौ च सर्वं नान्यतरमेवेत्यर्थः ।।२२।।
'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली, तदोचितसमयेन योगान् निरुद्ध्य मनोयोगादीन् शैलेशीं प्रतिपद्यते, भवोपग्राहिकर्मांशक्षयाय ।। २३ ।।
'जया' इत्यादि, यदा योगान् निरुद्ध्य शैलेशीं प्रतिपद्यते भवोपग्राहिकर्मांशक्षयाय, तदा कर्म्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाःसकलकर्मरजोविप्रमुक्तः ।।२४।।
जया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ ।
तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ।।४.२५ ।।
(ति.) [सुगमा]
(स.) जया - इति-यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थस्त्रैलोक्यस्योपरिवर्ती सिद्धो भवति शाश्वतः कर्मबीजाभावे न पुनरुत्पद्यते. उक्तो धर्मफलनामा षष्ठोऽधिकारः ।।२५।।
(सु.) 'जया' इत्यादि, यदा कर्म क्षपयित्वा सिद्धिं गच्छति नीरजाः, तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावाद् अनुत्पत्तिधर्मेति भावः ।। २५ ।। उक्तो धर्म्मफलाख्यः षष्ठोऽधिकारः ।