________________
७८
जया संवरमुक्कट्टं, धम्मं फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसंकडं ।।४.२०।।
दशवैकालिकं-टीकात्रिकयुतम्
(ति.) अबोधिकलुषकृतम् - अबोधिकलुषेण-मिथ्यात्वमलिनेनोपात्तं, मध्यानुस्वारोऽलाक्षणिकः ।
(स.) जया-इति-यदा संवरमुत्कृष्टं धर्मं स्पृशत्यनुत्तरं तदा धुनाति, धातूनामनेकार्थत्वात् पातयति, किं ? कर्मरजः कर्मैवात्मरञ्जनाद् रज इव कर्मरजः, किंभूतं कर्मरजः, अबोधिकलुषकृतम् - अबोधिकलुषेण मिथ्यादृष्टिना उपात्तमित्यर्थः ।।२०।।
(सु.) 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्म्यं स्पृशत्यनुत्तरं, तदा धुनोति - अनेकार्थतया पातयति कर्मरजः कर्मैवात्मरञ्जनाद् रज इव रजः, किंविशिष्टमित्याह - अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादृष्टिनोपात्तमित्यर्थः ।।२०।।
जया धुणइ कम्मरयं, अबोहिकलुसंकडं ।
तया सव्वत्तगं नाणं, दंसणं चाभिगच्छई ।।४.२१।।
जया सव्वत्तगं नाणं, दंसणं चाभिगच्छई | तया लोगमलोगं च, जिणो जाणइ केवली ।।४.२२ ।।
जया लोगमलोगं च, जिणो जाणइ केवली । तया जो निरंभित्ता, सेलेसिं पडिवज्जइ ।।४.२३।।
जया जो निरंभित्ता, सेलेसिं पडिवज्जइ ।
तया कम्मं खवित्ताणं, सिद्धिं गच्छइ नीरओ ।।४.२४ ।।
(ति) कर्म - भवोपग्राह्यपि ४.२१-४.२४ ।।
(स.) जया - इति-यदा धुनाति कर्मरजोऽबोधिकलुषकृतं, तदा सर्वत्रगं ज्ञानमशेषज्ञेयविषयमशेषं दर्शनं चाधिगच्छति, आवरणस्याभावादाधिक्येन प्राप्नोति. ।।२१।।
जया-इति-यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति, तदा लोकं चतुर्दशरज्जुरूपमलोकं चानन्तं जिनो जानाति केवली. ।।२२।।
१. चूर्णि 'अबोधिकलुसं कडं' - स्वतंत्र विशेषण माने छे.