________________
७७
चतुर्थम् अध्ययनम्
जया निविंदए भोए, जे दिव्वे जे य माणुसे । तया चयइ संजोगं, सब्भिंतरबाहिरं ।।४.१७ ।।
जया चयइ संजोगं, सब्भिंतरबाहिरं । तया मुंडे भवित्ताणं, पव्वए अणगारियं ।।४.१८ ।।
जया मुंडे भवित्ताणं, पव्वए अणगारियं । तया संवरमुक्कटुं, धम्मं फासे अणुत्तरं ।।४.१९।। (ति.) उत्कृष्टसंवरम्-प्राणातिपातादि पञ्चाश्रवविरमणरूपम् ।
(स.) जया-इति-यदा निर्विन्ते भोगान् दिव्यान् मानुषान्, तदा त्यजति संयोगं सम्बन्धं साभ्यन्तरबाा, क्रोधादिरूपमाभ्यन्तरं स्वर्णादिरूपं बाह्यं सम्बन्धमित्यर्थः. ||१७।।
जया-इति-यदा त्यजति संयोगं साभ्यन्तरं बाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति प्रकर्षेण व्रजति मोक्षमनगारं द्रव्यतो भावतश्चाविद्यमानागारमित्यर्थः ।।१८।।
जया-इति-यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदोत्कृष्टं संवरधर्मं सर्वप्राणातिपातादिनिवृत्तिरूपं चारित्रधर्मं स्पृशत्यनुत्तरं सम्यगासेवत इत्यर्थः. ।।१९।।
(सु.) 'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोग-संबन्धं, द्रव्यतो भावतः साभ्यन्तरबाह्य-क्रोधादिहिरण्यादिसम्बन्धमित्यर्थः ||१७||
'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं, तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति-प्रकर्षेण व्रजत्यपवर्गं प्रत्यनगारं द्रव्यतो भावतश्चाविद्यमानागारमितिभावः ।।१८।। ...
'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारितां, तदा 'संवरमुक्किळं-इति प्राकृतशैल्या उत्कृष्टसंवरं धर्मं सर्वप्राणातिपातादिविनिवृत्तिरूपं चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ।।१९।।