________________
७३
चतुर्थम् अध्ययनम् यस्य स तथा तम् । सम्यग् भूतानि-पृथ्व्यादीनि पश्यन्तम् । पिहिताश्रवम्-स्थगितप्राणातिपातादिकम् । दान्तम्-कर्मतापन(न)म् । पापं कर्म, कर्तृ न बध्नाति ।।
(स.) सव्व'-इति-किञ्चैवंविधस्य साधोः पापं कर्म न बध्यते. तस्य साधोः पापकर्मबन्धो न भवतीत्यर्थः, किंभूतस्य साधोः ? सर्वभूतेष्वात्मभूतो य आत्मवत् सर्वभूतानि पश्यति तस्य, किंकुर्वतः साधोः ? सम्यग् वीतरागकथितेन विधिना भूतानि पृथिव्यादीनि पश्यतः, पुनः किंभूतस्य साधोः ? पिहितो निरुद्धः स्थगित आश्रवः प्राणातिपातादिरूपो येन स तस्य, पुनः किंभूतस्य साधोः ? दान्तस्य दमितेन्द्रियनोइन्द्रियव्यापारस्य, एवं सति किं भवति ? सर्वभूतदयावतः पापकर्मबन्धो न भवति. ।।९।।
(सु.) किं च-'सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो य 'आत्मवत् सर्वभूतानि पश्यति'इत्यर्थः, तस्यैवं सम्यग् वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य-स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य-इन्द्रियनोइन्द्रियदमेन पापं कर्म न बध्नाति, तस्य पापकर्मबन्धो न भवतीत्यर्थः ।।९।।
पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अन्नाणी किं काही ?, किं वा नाही छेय-पावगं ? ||४.१०।।
(ति.) एवं तर्हि दयैव कार्या, किं ज्ञानाभ्यासेनेत्याह -प्रथमं ज्ञानम्-जीवाजीवादेः । ततो दया, एवं तिष्ठति । सर्वसंयतः-सर्वसंयमवान् | अज्ञानी किं करिष्यति ?, किं वा ज्ञास्यति ? श्रेयः पापकं वा ।।१०।।
(स.) शिष्यः प्राह पढम-इति-इत्यनेन किमागतं ? सर्वप्रकारेण दयायामेव यतितव्यं. किं प्रयोजनं ज्ञानाभ्यासेन ? गुरुराह-मा एवं भ्रमं कुरु ? यतः प्रथममादौ ज्ञानं जीवस्वरूप-रक्षणस्योपायफलविषयं, ततस्तथाविधज्ञानात् पश्चाद् दया संयमः, एवमनेन प्रकारेण ज्ञानपूर्वकदयाप्रतिपत्तिरूपेण तिष्ठत्यास्ते सर्वसंयतः सर्वोऽपि साधुवर्गः, परं यः पुनरज्ञानी ज्ञानरहितः स किं करिष्यति ? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिमित्तस्याभावात्, किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालस्योचितं पापकं वा छेकाद् विपरीतं, तत्करणं भावतोऽकरणमेव समस्तनिमित्तानामभावादन्धप्रदीप्तपलायनघुणाक्षरवत्. अत एवान्यत्रा-प्युक्तं