________________
७४
दशवैकालिकं-टीकात्रिकयुतम् "गीअत्थो अ विहारो बीओ गीअत्थमीसिओ भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं १." [ओघनियुक्ति-१२२] अतो ज्ञानाभ्यासः कार्य एव. १०. (सु.) एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवति, ततश्च सर्वात्मना दयायामेव यतितव्यं, अलं ज्ञानाभ्यासेनापि(न')इति मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह-'पढमं नाणं'-इति, प्रथम-आदौ ज्ञान-जीवस्वरूप-संरक्षणोपायफलविषयं 'ततः' तथाविधज्ञानसमनन्तरं दया-संयमः, तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवं अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति-आस्ते, सर्वसंयतःसर्वप्रव्रजितः, यः पुनरज्ञानी-साध्योपायफलपरिज्ञानविकलः, स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात् प्रवृत्ति-निवृत्तिनिमित्ताभावात्, किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं, पापकं वा-अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायन-घुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तं-"गीतत्थो य विहारो० ।।१।।" इत्यादि, अतो ज्ञानाभ्यासः कार्यः ||१०।।
सुच्चा जाणइ कल्लाणं, सुच्चा जाणइ पावगं | उभयं पि जाणई सुच्चा, जं सेयं तं समायरे ।।४.११।।
(ति.) अतो ज्ञानाभ्यासः कार्यः इत्याह-[सुच्चा...इत्यादि] स्पष्टः । नवरं यत् श्रेयः तत् समाचरेत् ।
(स.) यतः आह-सोच्चा-इति-श्रुत्वा जानाति कल्याणं दयाख्यं संयमस्वरूपं, श्रुत्वा च जानाति पापकं हिंसाख्यमसंयमस्वरूपम्, उभयमपि संयमा-ऽसंयमस्वरूपं श्रावकोपयोगि श्रावकयोग्यं जानाति श्रुत्वा नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यच्छेकं तत् समाचरेत्, तत् कुर्यादित्यर्थः. ११..
(सु.) तथा चाह-'सुच्चा०' इति, श्रुत्वा-आकर्ण्य तत्साधन-स्वरूप-विपाकं जानातिबुध्यते कल्याणं-कल्यो-मोक्षस्तमणति-नयतीति कल्याणं-दयाख्यं संयमस्वरूपं, श्रुत्वा जानाति पापं-पापकर्म असंयमस्वरूपं, उभयमपि-संयमा-ऽसंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यच्छेकं निपुणं हितं कालोचितं,
१.०३ १०
॥