________________
७२
दशवैकालिकं-टीकात्रिकयुतम् (स.) अत्र शिष्य आह-कहं-इति-यद्येवं पापकर्मबन्धस्ततः कथं चरेदित्याहकथं केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत कथं 'स्वपेत्, कथं भुञ्जानोऽन्नं कथं भाषमाणः पापकर्म न बध्नाति ? ७.
(सु.) अत्राह-यद्येवं पापकर्मबन्धः, ततः 'कहं चरे' इत्यादि कथं-केन प्रकारेण चरेत ?, कथं तिष्ठेत ?, कथमासीत ?, कथं स्वपेत् ?, कथं भुजानो भाषमाणः पापं कर्म न बध्नातीति ? |७||
जयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ ||४.८।। (ति.) गुरुराह-[जयं चरे... इत्यादि
(स.) अत्र आचार्य उत्तरमाह-जयमिति-यतं चरेत् सूत्रस्योपदेशेन ईर्यासमित्यादिसमितः सन्, यतं तिष्ठेत् असमाहितः सन् हस्तपादादीनां विक्षेपेण विना, यतमासीत उपयुक्तः सन्नाकुञ्चना देरकरणेन, यतं स्वपेत् समाधिमान् सन् रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानोऽप्रणीतं सिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया तदपि मृदु कालप्राप्तं च, एवं कुर्वन् साधुः पापं कर्म क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि न बध्नाति, कथम् ? आश्रवरोधनात् साध्वाचारतत्परत्वाच्च. ८.
(सु.) आचार्य आह-'जयं चरे' इत्यादि, यतं-चरेत् सूत्रोपदेशेन ईर्यादिसमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्तमाकुञ्चनाद्यकरणेन, यतं स्वपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः-सप्रयोजनमप्रणीतं प्रतर[?]सिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया मृदु कालप्राप्तं च, पापं कर्म-क्लिष्टं अकुशलानुबन्धि ज्ञानावरणादि न बध्नाति नादत्ते, निराश्रवत्वाद्विहितानुष्ठानपरत्वादिति ।।८।।
सव्वभूयप्पभूयस्स, सम्मं भूयाई पासओ । पिहियासव्वस्स दंतस्स, पावं कम्मं न बंधइ ।।८.९।। (ति.) किं बहुना...इह द्वितीयार्थे षष्ठी, सर्वाणि भूतानि आत्मभूतानि-आत्मप्रायाणि
१. स्वप्यादिति साधुः । २. क्वचिदिदं पदन्नास्ति । ३. स्वप्यादिति साधीयान् ।