________________
७१
चतुर्थम् अध्ययनम् पापकं कर्म, अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, तत्पापकर्म से तस्यायत्नचारिणो भवति कटुकफलमशुभफलं भवति. मोहादिहेतुत्वेन विपाकदारुणमित्यर्थः ।।१।।
अजयं-इति-एवमयतं तिष्ठन्नूर्ध्वस्थानेनासमंजसं हस्तपादादिकं विक्षिपन्, शेषं पूर्ववत्. ।।२।।
अजयं-इति-एवमयतमासीनो निषष्णतया अनुपयुक्तः सन्नाकुञ्चनादिभावेन, शेषं पूर्ववत्. ।।३।।
एवमयतं स्वपन्नसमाहितो दिवसे प्रकामशय्यादिना, शेषं पूर्ववत्. ।।४।। एवमयतं भुञ्जानो निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना, शेषं पूर्ववत्. ।।५।। अजयं-इति-एवमयतं भाषमाणो गृहस्थभाषया निष्ठुरमन्तरभाषादिना, शेषं पूर्ववत्. ||६||
(सु.) सांप्रतं उपदेशाख्यः पञ्चम[अधिकारः] उच्यते-अजयं-इत्यादि, अयतं चरन्, अयतं गच्छन्-ईर्यासमितिमुल्लंघ्य, किमित्याह-'प्राणिभूतानि हिनस्ति', प्राणिनोद्वीन्द्रियादयः, भूतानि-एकेन्द्रियाः, तानि हिनस्ति-प्रमादाना-ऽनाभोगाभ्यां व्यापादयतीतिभावः, तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म, से तस्यायतचारिणो भवति, कटुकफलमिति अनुस्वारोऽलाक्षणिकः, अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ।।१।।
एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ।।२।। एवमयतमासीनो निषण्णतयाऽनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् ।।३।। एवमयतं स्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ।।४।। एवमयतं भुजानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ।।५।। एवमयतं भाषमाणो, गृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ।।६।। कहं चरे ? कहं चिट्ठे ?, कहमासे ? कहं सए ? | कहं भुंजतो ? भासन्तो ?, पावं कम्मं न बंधइ ।।७।। (ति.) अत्राह-शिष्यः । यद्येवं कर्मबन्धः ततः[कहं चरे...इत्यादि]