________________
७०
अजयं चिट्टमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ।।४.२।।
दशवैकालिकं-टीकात्रिकयुतम्
अजयं आसमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.३ । ।
अजयं सयमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं, तं से होइ कडुयं फलं ।।४.४।।
अजयं भुंजमाणो य, पाणभूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.५।।
अजयं भासमाणो य, पाणभूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ।।४.६।।
(ति.) उक्ता यतना, साम्प्रतं 'उपदेश' माह-अयतमिति क्रियाविशेषणम्, अयतनया ईर्यासमितिं विना, चरन् - गच्छन् । प्राणभूतानि हिनस्ति ।
प्राणा द्वि-त्रि- चतुः प्रोक्ता, भूतास्तु तरवः स्मृता ।
जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ||१|| [ ]
प्राणभूतानीति बहुवचनात् सर्वानप्येतान् प्रमादानुपयोगाभ्यां व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म । तत् से-तस्य भवति, कटुकफलम् - दारुणविपाकफलं, कटुकानुस्वारोऽलाक्षणिकः । अयतं तिष्ठन् - अस्थाने । अयतम् आसीनः आकुञ्चनादि कुर्वन् । अयतं स्वपन्-अप्रत्युपेक्ष्य परिवर्तनादिना । अयतं भुञ्जानः- निःकारणं प्रणीतादि सराग-द्वेषं वा । अयतं भाषमाणः - गृहस्थभाषया निष्ठुरम्, अन्तरभाषादिना वा । शेषं सर्वगाथासु पूर्ववत् ।
·
I
(स.) साम्प्रतमुपदेशमाह - अजयं - इति- अयतं चरन् यत्नं विना गच्छन्निर्यासमितिमुल्लङ्घ्य, किमित्याह–प्राणिभूतानि हिनस्ति, प्राणिनो द्वीन्द्रियादयः, भूतानि एकेन्द्रियास्तानि हिनस्ति प्रमादेनानाभोगेन च व्यापादयति, तानि हिंसन् बध्नाति