________________
चतुर्थम् अध्ययनम्
५९ आत्महिताय. आत्महितो मोक्षस्तदर्थमुपसम्पद्य सामीप्येनाङ्गीकृत्य व्रतानि, विहरामि सुसाधुविहारेण.
(सु.) समस्तव्रताभ्युपगमख्यापनायाह-'इच्चेयाइं पंचमहव्वयाई' इत्यादि, इत्येतानि अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-आत्महितार्थे आत्महितो-मोक्षस्तदर्थं, अनेनान्यार्थं तत्त्वतो व्रताभावमाह तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात्, उपसम्पद्य-सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामि' सुसाधुविहारेण, तदभावेऽङ्गीकृतानामपि व्रतानामभावात्, दोषाश्च हिंसादिकर्तृणामल्पायुर्जिह्वाच्छेद-दारिद्रय-पण्डक-दुःखितत्वादयो वाच्या इति ।९।। ___से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहयपच्चक्खायपावकम्मे दिया वा राउ' वा एगउ' वा परिसागउ' वा सुत्ते वा जागरमाणे वा ।
(ति.) अधुना षड्जीवनीकाययतनामाह-से'-इति योऽसौ महाव्रतयुक्तः । भिक्षुर्वा भिक्षुणी वा-आरम्भपरित्यागात् धर्मपरिपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषज्येष्ठो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानीत्याह । संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा-सम्यग् यतः-संयतः सप्तदशविधसंयमोपेतः, विविधे द्वादशप्रकारे तपसि रतः-विरतः, प्रतिहतं स्थितिहासतो ग्रन्थिभेदेन, प्रत्याख्यातं हेत्वभावाद् वृद्ध्यभावेन पापकर्म ज्ञानावरणीयादि येन स । तथा दिवा वा रात्रौ वा एको वा-कारणात् । परिषं गतः शेषकालम् । सुप्तो वा जाग्रद् वा इदं च वक्ष्यमाणं न कुर्यात् ।
(स.) उक्तश्चारित्रधर्मः स च यतनया स्यात्, अतो यतनार्थमाह-स इति-से इति निर्देशे, स योऽसौ महाव्रतयुक्तो भिक्षुर्वा भिक्षुकी वा आरम्भत्यागात्, धर्मकायपालनाय भिक्षणशीलो भिक्षुरेव भिक्षुक्यपि, 'पुरुषोत्तमो धर्म' इति भिक्षुर्विशेष्यते, तद्विशेषणानि भिक्षुक्या अपि ज्ञेयानि. भिक्षुविशेषणान्याह- संयत-विरत-प्रतिहत-प्रत्याख्यातपापकर्मा, तत्र सामस्त्येन यतः संयतः सप्तदशप्रकार-संयमसहितः, पुनर्विविधमनेकप्रकारतया द्वादशविधे तपसि रतो विरतः, पुनः प्रतिहत-प्रत्याख्यात-पापकर्मा-प्रतिहतं स्थितेर्हासाद् ग्रन्थिभेदेन प्रत्याख्यातं हेत्वभावतः पुनर्वृद्धेरभावेन पापं पापकर्म ज्ञानावरणीयादि येन सः ततः कर्मधारयः । स तथाविधो दिवा वा, रात्रौ वा, एकको वा परिषद्गतो
१. सर्वत्र 'ओ', मुद्रिते ग्रन्थे । २. गृ. १-१०.१२ ।।